SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका०प्रा.२० सु.४ चन्द्रस्ययोरग्रमहिषीणां संख्यादि वर्णनम् ७०७ अचिर्मालि ३, प्रभङ्करा ४ इति । विमानं च सूर्यस्य सूर्यावतंसकमवसेयम् । अन्यत् सर्व निरवशेष चन्द्रवदेव पठनीयं, नान्यः कोऽपि भेदः । कथितस्यापि पुनरत्रकथनं चन्द्रसूर्यप्रसङ्गवशादिति न कश्चिद्दोष इति । साम्प्रतं चन्द्रसूर्याणां कामभोगानां शातासुखं कीदृशमिति प्रतिपादयति-'ता चंदिमसूरियाणं' इत्यादि 'ता' तावत् 'चंदिमसूरियाणं' चन्द्रसूर्याः खलु ज्यौतिषेन्द्रा ज्यौतिषराजाःकीदृशान् कामभोगान् प्रत्यनुभवन्तो विहरन्ति-तिष्ठन्ति ? । एवं गौतमेन पृष्टे भगवानाह-'ता से जहानामए' इत्यादि, 'ता' तावत् सः यथा नामकः अनिदिष्टनामा 'केई पुरिसे' कोऽपि पुरुषः कीदृशः ? इत्याह 'पढम' इत्यादि 'पढमजोव्वणुदाणबलसमत्त्थे' प्रथमयौवनोत्थानबलसमर्थः प्रथमयौवनोत्थाने प्रथमयौवनोद्गमे यद्वलं शरीरसामर्थ्य तेन समर्थः प्रथमेत्यादि तादृश्याः एव भार्यया साईमित्यप्रेणान्वयः 'अचि वत्तवीवाहे' अचिरवृत्तविवाहः तत्कालकृतपाणिग्रहः सन् 'अत्थत्थी' अर्थार्थी धनार्थी अतएव 'अत्थगवेसणयाए' अर्थगवेषणतायै धनोपार्जनार्थम् ‘सोलसवासविप्पवसिए' पोडश वर्षविप्रोषितः षोडशवर्षानि यावत् कृतदेशान्तरप्रवासः ‘से णं' स खलु पुरुषः 'तो' ततः देशान्तरात् 'लद्ध' लब्धार्थः प्रातः प्रभूतार्थः, अतएव 'कयकज्जे' कृतकार्यः कृतं संपादितं कार्यः धानोपार्जनरूपं येन स तथाभूतः, 'अणहसमग्गे' अनध समग्रः अनधम -- अक्षतं न पुनरन्तराले केनापि चोरादिना लुण्टितं समग्रं-द्रव्यभाण्डोपकरणादि यस्य स तथा, एतादृशः सन् पुनरपि 'णियगघरं हव्वमागए' निजकगृहं स्वगृहं हव्यं-शीघ्रं मार्गे कुत्रापि निवासमकुर्वन् आगतः-समागतः । सच 'हाए' स्नातः कृतस्नानः 'कयबलिकम्मे' कृत बलिकर्मा कृतं बलिकर्म पशुपक्षिभ्योऽन्नप्रदानादि रूपं येन स तथा भूतः, कृतकौतुकमङ्गलप्रायश्चित्तः-कृतं कौतुकं मषीतिलकादिकं मङ्गलं मङ्गलकारकं दध्यक्षतादिधारणं प्रायश्चितं दुःस्वप्नादि फलनिवारणार्थं देवगुरुनमस्काररूपं येन स तथाभूतः 'सुद्धप्पावेसाई' शुद्धानि पावत्राणि स्वच्छानि वा प्रावेश्यानि सभादि प्रवेशयोग्यानि यद्वा 'सुद्धप्पा' इति पृथक् पदं तस्यायमर्थः शुद्धात्मा कृतकौतुकमङ्गलप्रायश्चित्तत्वेन शुद्धान्तःकरणः 'वेसाई' वेष्यानिवेषयोग्यानि 'मंगल्लाई' माङ्गल्यानि मङ्गलसूचकानि न तु शोकसूचक कालवर्णादि युक्तानि एतादृशानि 'वत्थाई' वस्त्राणि 'पवरपरिहिए' प्रवरतया यथास्थानं परिहितानि येन स प्रवरपरिहितः, पुनश्च 'अप्पमहग्धाभरणालंकियसरीरे' अल्पानि भारापेक्षयाऽल्पभारयुक्तानि महाणि महामूल्यानि यानि आभरणानि, तैरलङ्कृतं शरीरं यस्य स तथाभूतः सन् 'मण्णुण्णं' मनोज्ञं मलमोदनादि थालीपागसुद्धं' स्थालीपाकशुद्धं स्थाली-पिठरी तस्यां पाको यस्य अन्यत्रहि पक्कमोदनादि न सु पक्कं भवति तत इदं स्थालीपाकेति विशेषणम्, अत एव शुद्धम् अपक्का दिदोषवर्जितं भक्तदोषवर्जितं वा 'अट्ठारसबंजणाउलं' अष्टादशव्यञ्जना कुलम् अष्टादशभिर्लोकप्रसिदैर्व्यजनैः शालनकतक्रावलेहनिकादिभिराकुलं युक्तम्, एतादृशं
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy