SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्तिसूत्रे वामभुजान्तेन मुञ्चति, ७, दक्षिणभुजान्तेन गृहीत्वा दक्षिणभुनान्तेन मुञ्चति ८, १॥ तत्र ये ते एवमाहुः --तावत् नास्ति खलु स राहुर्देवः यः खलु चन्द्रं वा सूर्यं वा गृह्णाति ते एवमाहुः-तत्र खलु इमे पञ्चदश कृष्णाः पुद्गलाः प्रज्ञताः, तद्यथा-शृङ्गाटकः १, जटिलकः २, खरकः ३, क्षतकः, ४, अञ्जनः ५, खञ्जनः, ६, शीतलः ७, हिमशीतलः, ८, कैलाशः ९, अरुणाभः १०, प्रभञ्जनः ११, नभः सूरकः १२, कापिलिकः १३, पिङ्गलका १४, राहुः १५, तावत् यदा खलु पते पञ्चदश कृष्णाः पुद्गलाः सदा चन्द्रस्य वा सर्यस्य वा लेश्यानुबद्धचारिणो भवन्ति तदा खलु मानुषलोके मनुष्या एवं वदन्ति एवं खलु राहुश्चन्द्रं वा सूर्य वा गृहाति एवं खलु. २। तावत् यदा स्खलु एते पञ्चदश कृष्णाः पुद्गला नो सदा चन्द्रस्य वा सूर्यस्य वा लेश्यानुबद्धचारिणो भवन्ति तदा मनुषलोके मनुष्या एवं वदन्ति–एवं खलु राहुश्चन्द्रं वा सूर्य वा नो गृह्णाति एते एवमाहुः ॥२॥ . वयं पुनरेवं वदामः-तावत् राहुः खलु देवो महर्द्धिको यावत् महानुभावः वरवस्त्रधरः वरमाल्यधरो पराभरणधारी । राहोः खलु देवस्य नव नामधेयानि प्रशप्तानि, तद्यथाशृङ्गाटकः १, जटिलकः २, खरकः ३. क्षतकः ४, दर्दुरः ५, मकरः ६, मत्स्यः , कच्छपः ८, कृष्णसपेः ९ । तावत् राहोः खलु देवस्य विमानानि पञ्चवर्णानि प्रज्ञप्तानि, तद्यथाकृष्णानि १, नीलानि २, लोहितानि ३, हारिद्राणि ४, शुक्लानि ५। अस्ति कालकं राहुविमानं खञ्जनवर्णाभं प्रक्षप्तम् १, अस्ति नोलकं राहुविमानम् अलाबुकवर्णाभं प्रज्ञप्तम् २, अस्ति लोहितं राहुविमानं मजिष्ठावर्णाभं प्राप्तम् ३, अस्ति हारिद्रं राहुविमान हरिद्रावर्णाभ प्राप्तम् ४, अस्ति शुक्लं राहुविमानं भस्मराशिवर्णाभं प्राप्तम् ५; तावत् यदा खलु राहुर्देवः आगच्छन् वा गच्छन् वा विकुर्वन् वा परिचारयन् वा चन्द्रस्य वा सूर्यस्य का लेश्यां पौरस्त्येन आवृत्य पाश्चात्येन व्यतिव्रजति तदा खलु पौरस्त्येन चन्द्रो वा सूर्यो का उपदर्शयति पाश्चात्येन राहुः १। यदा स्खलु राहुर्देव आगच्छन् वा गच्छन् वा विकुर्वन् का परिचारयन् वा चन्द्रस्य वा सूर्यस्य वा लेश्यां दक्षिणात्येन आवृत्य उत्तरेण व्यति. ब्रजति तदा खलु दक्षिणात्येन चन्द्रोवा सूर्योवा (आत्मानं) उपदर्शयति, उत्तरेण राहुः २। पतेन अभिलापेन पाश्चात्येन आवृत्य पौरस्त्येन व्यतिव्रजति उत्तरेण आवृत्य दाक्षिणात्येन व्यतिव्रजति यदा खलु राहुर्देव आगच्छन् वा गच्छत् का विकुर्वन् वा परिचारयन् वा चन्द्रस्य वा सूर्यस्य वा लेश्यां दक्षिणपौरस्त्येन आवृत्य उत्तरपाश्चात्येन व्यतिवजति तदा खलु दक्षिणपौरस्त्येन चन्द्रो वा सूर्योवा उपदर्शयति, उत्तरपाश्चात्येन राहुः । यदा खलु राहुर्दैव आगच्छन् वा गच्छन् वा विकुर्वन् वा परिचारयन् वा चन्द्रस्य वा सूर्यस्य वा लेश्यां दक्षिणपाश्चात्येन आवृत्य उत्तरपौरस्त्येन व्यतिव्रजति तदा खलु दक्षिण पाश्चात्येन चन्द्रो वा सूर्यो वा उपदर्शयति उत्तरपौरस्त्येन राहुः । एतेन अभिलापेन उत्तर पाश्चात्येन आवृत्य दक्षिणपौरस्त्येन व्यतित्रजति, उत्तरपौरस्त्येन आवृत्य दक्षिणपाश्चात्येन । बत् यदा स्खल राहुर्देव आगच्छन् वा ४, चन्द्रस्य वा सूर्यस्य वा लेश्याम भावृत्य व्यतिव्रजति तदा खलु मनुष्यलोके मनुष्या बदन्ति राहुणा चन्द्रो वा सूर्यो वा गृहीतः। राहुणा०२ तावत् यदा खलु राहुर्दैव आगच्छन् वा०४ चन्द्रस्य वा सूर्यस्य वा लेश्याम् आवृत्य पार्वेण व्यतिवजात तदा खलु मनुष्यलोके मनुष्या वदन्ति-चन्द्रेण वा सूर्येण वा
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy