SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका० प्रा०२० सू. १ चन्द्रसूर्याणामनुभावनिरूपणम् ६९१ । अथ विंशतितमं प्राभृतम् । तदेव मुक्तमेकोनविंशतितमं प्राभृतम्, तत्र जम्बूद्वीपादारभ्य स्वयम्भूरमणसमुद्रपर्यम्तानां द्वीपसमुद्राणां संस्थानविष्कम्भ-परिधिज्योतिश्चक्राणां वक्तव्यता प्रोक्ता । अथ विंशतितम प्राभृतं व्याख्यायते, अत्रायमर्थाधिकारः-पूर्वमधिकारसंग्रहगाथायामुक्तम्-'अणुभावे केरिसेवुत्ते' अनुभावः कीदृश उक्त इति, अनेन सम्बन्धेनास्मिन् प्राभृते चन्द्रसूर्याणामनुभावः प्रदर्शयिष्यते इति तद्विषयं प्रथमं सूत्रमाह-'ता कहं ते अणुभावे' इत्यादि । मूलम्-ता कहं ते अणुभावे आहिए ? ति वएज्जा । तत्थ खलु इमाओ दो. पडिवत्तीओ पण्णत्ताओ तं जहा तत्थेगे एवमाहंमु-ता चंदिमसरियाणं णो जीवा, अजोवा, णो घणा, झुसिरा, णो बादरबोंदिधरा, कलेवरा, नत्थि णं तेर्सि उट्ठाणेइ वा, कम्मेइ वा, बलेइ वा, वीरिए इ वा, पुरिसक्कारपरक्कमे इ वा, ते णोविज्जु लवंति, णो असणि लवंति, णो थणियं लवंति,, अहेय णं बायरे वाउकाए संमुच्छइ, अहेय गं बायरे बाउकाए समुच्छित्ता विजंपि, लवंति असणिपि लवंति, थणियंपि लवंति, एगे एव माह सु-ता चंदिमसरियाणं जीवा, णो अजीवा, घणा, नो झुसिरा, बायरबोंदिधरा, नो कलेवरा, अस्थि णं तेर्सि उठाणे इ वा, कम्मे इ वा, बले इ वा, वीरिए इवा, पुरिसक्कारपरक्कमे इ वा, ते विज्जुपि लवंति, असणिपि लवंति, थणियपि लवंति, एगे एवमाहं सु ॥२॥ वयं पुण एवं क्यामो-ता चंदिमसूरियाणं देवा महिडूढिया महाजुइया महाबला महाजसा महासोक्खा महाणुभावा वरवत्थधरा वरमल्लधरा वराभरणधारी अब्खुच्छित्तिणयट्टयाए अण्णे चयंति अण्णे उववज्जंति ।सू० १। छाया तावत् कथं ते अनुभावः आख्यातः ? इति वदेत् तत्र खलु इमे वे प्रतिपत्ती प्रज्ञप्ते, तद्यथा-तत्रैके एवमाहुः-तावत् चन्द्रसूर्याः खलु नो जीवाः, अजीवा नो घना, शुषिराः नो बादरबोंदिधराः, कलेवराः, नास्ति खलु तेषाम् उत्थानमितिवा, कर्मेतिवा, बलमिति वा, वीर्यमिति वा पुरुषकारपराक्रम इतिवा, ते नो विद्युतं प्रवर्तयन्ति, नो अशनिं प्रवर्सयन्ति, नो स्तनितं प्रवर्त्तयन्ति, अधश्च खलु बादरो वायुकायः संमूर्च्छति, अधश्च खलु बादरो वायुकायः समूछर्य विद्युतमपि प्रवर्तयन्ति, अशनिमपि प्रवर्त्तयन्ति, स्तनितमपि प्रवर्त्तयन्ति, एके एवमाहुः ॥१॥ एके पुनरेवमाहुः तावत् चन्द्रसूर्याः खलु जीवाः, नो अजीवा, घनाः, नो शुषिराः, बादरबोदिधराः नो कलेवराः, अस्ति खलु तेषाम् उत्थानमितिवा, कर्मेतिवा, बलमितिवा, वीर्यमितिवा पुरुषकारपराक्रम इतिवा, ते विद्युतमपि प्रवर्त्तयन्ति, अशनिमपि प्रवर्त्तयन्ति स्तनितमपि प्रवत्तयन्ति, एके एवमाहुः ॥२॥ वयं पुनरेवं वदामः तावत् चन्द्रसूर्याः खलु देवाः महद्धिकाः महाद्युतिकाः महाबला-महायशस: महा सौख्याः, महानुभावाः वरवस्त्रधराः वरमाल्यधराः, वराभरणधारिणः अव्युच्छित्तिनयार्थतया अन्ये च्यवन्ते अन्ये उपपद्यन्ते ॥सू०॥१॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy