SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्तिसूत्रे ___ व्याख्याः -'ता चंदस्सणं' इत्यादि, । प्रश्नसूत्रं सुगमम् । भगवानाह-चन्द्रस्य खलु ज्योति पेन्द्रस्य ज्यौतिषराजस्य चतस्रोऽप्रमहिष्यः प्रज्ञप्ताः । ता इमाः-चन्द्रप्रभा १ ज्योत्स्नाभा २, अर्चिमाली, प्रभंकरा ४ इति । सुगमं सर्वमेतत्सूत्रं तथापि भाव रूपेण व्याख्यायते-'तत्थ णं एगमेगाए' इत्यादि, तत्र खलु तासु चतसृषु अग्रमहिषु एकैकस्या अग्रमहिण्याश्चत्वारिचत्वारि देवी सहस्राणि परिवारइति परिवारत्वेन प्रज्ञप्तः । 'पभूणं ताओ' इस्यादि प्रभवः समर्था खलु ताः सर्वा परिवार भूताः षोडश सहस्र देव्यः प्रत्येकम् एकैका देवी अपि अन्याः चतस्रश्चतम्रों देवीः विकुर्बितुम् समर्थाऽस्ति । एवं परिवारभूतानां देवीनां सर्वासां पूर्वापरसंमेलनेन स्वाभाविकानि षोडश देवी सहस्राणि भवन्तीति । षोडश देवो सहस्रात्मकः समूहः त्रुटिक मिति कथ्यते । त्रुटिकमित्यन्तः पूरम् । ततः त्रुटिकेन सह चन्द्रावतंसके विमाने सुधर्मसभायां चन्द्रस्य दिव्यभोगभोगानां भोगसामर्थ्य गौतमस्य प्रश्नः । भगवतो निषेधात्मकमुत्तरम्-'नायमढे समढे' इति नायमर्थः समर्थः चन्द्रदेवस्य त्रुटिकेन सार्द्ध दिव्यभोगानां भोगे सामर्थ्य नास्तीति भावः । कथं न सामर्थ्यम् ? इति गौतमस्य प्रश्नः । भगवानाह-'ता चंदस्स णं, इत्यादि, चन्द्रस्य चन्द्रावतंसके विमाने सुधमायां सभायां माणवकनाम्नि चैन्यस्तम्भे स्थितेषु बज्रमयसिक्ककेषु वज्रमया गोलाकाराः समुद्गकाः सन्ति तेषु जिनसक्थीनि तिष्ठन्ति, तानि च ज्यौतिषिकाणं देवानां च अर्चनवन्दन संस्कार सम्मानयोग्यानि तथा कल्याणं मङ्गल्यं दैवतं चैत्यमिति कृत्वा पर्युपासनियानि इति ते देवा . मन्यन्ते अतस्तत्र चन्द्रदेवस्त्रुटिकेन सार्द्ध दिव्यभोगमोगान् भोक्तुं न समर्थः । किन्तु स ज्यौतिषेन्द्रो ज्यौषिराजश्चन्द्र देवः चन्द्रावतंसके विमाने सभायां सुधर्मायां चान्द्रे सिंहासने चतुर्भि सामानिक देवसहस्रः चतसृभिः सपरिवाराभिरग्रमहिषोभिः, तिसृभिः पर्षद्भिः, सप्तभिरनीकैः सन्य, सप्तभिरनीकाधिपतिभिः षोडशभिरात्मरक्षकदेवसाहौ, अन्यैश्च बहुभिः ज्योतिषिकै र्देवैः देवीभिश्च सार्द्ध संपरिवृतो भूत्वा महताहतनाटयगीतवादित्रतन्त्रोतलताल त्रुटित घन मृदङ्ग ..पटुप्रवादितरवेण, तत्र महता रवेण इत्यग्रेण सम्बन्धः अथवा महत्त्वेन आहतानि अव्याहतानि नाटयगीतवादित्राणि, तथा तन्त्री-वीणा, तलताला: हस्तताला त्रुटितानि तूर्याणि, तथाधनि साधात् घनाकारो मृदङ्गः, स च पटुपुरुषेण प्रवादितः, एतेषां पदानां द्वन्द्वः, तेषां यो स्वः शब्दस्तेन तच्छब्दपूर्वक मित्यर्थः दिव्यान् भोगयोग्यान् भोगान् शब्दश्रवणमात्रान् भुञ्जन् अनुभवन् विहर्तुं प्रभुः समर्थो भवति तत्तु 'परियारणि इढीए, परिचारण ऋद्धयैव मो चेव णं मेहुणवत्तियाए' न तु मैथुनवृत्तितया मैथुनवृत्त्या मैंथुनबुद्धया भोक्तुं न समर्थ इति । अथ सूर्याप्रमहिषी विषय प्रश्नः। भगवानाह-सूर्यस्यापि चतस्रोऽग्रमहिष्यः, तद्यथा सूरापमा' इत्यादि सूर्यप्रभा १ आतपा २ अचिर्माली ३ प्रभंकरा ४ इति । सेसं जहा बंदास 'शेषं सर्व यथा चन्द्रस्य तथाऽवसेयम् नवरं विशेषः केवल मेतावानेव अत्र 'सूर्यावतंसके
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy