SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका० प्रा. १८ सू.६ सर्वाभ्यन्तरादिचारसूत्रनिरूपणम् ६३९ व्यख्या-'ता जंबुद्दीवेणं दोवे' इत्यादि । प्रश्नसूत्रे जम्बूद्वीपे द्वीपे अष्टाविंशति नक्षत्राणां मध्यात् सर्वाभ्यन्तर सर्वबाह्य सर्वोपरि सर्वाधश्चारीणि कानि कानि नक्षत्राणि सन्ती ति पृच्छा सूत्रं सुगमम् भगवानाह—'ता' तावत् 'अभिईणक्खत्ते' अभिजिन्नक्षत्रं सर्वाभ्यन्तरकं चार चरति, एवं मूलनक्षत्रं सर्वबाह्यं चार चरति, स्वातिनक्षत्रं सर्वोपरितनं चार चरति भरणी नक्षत्र सर्वाधस्तनं चारं चरती त्युत्तरम् । सू०॥६॥ मूलम् –ता चंदविमाणेणं भंते ? किं संठिए पण्णत्ते ? ता अद्ध कविट्ठसंठाणसंठिए सव्व फालियामए अब्भुग्गय मूसिय पहासिए विविहमणिरयणभत्तिचित्ते वाउद्ध्य विजयवेजयंती पडागछत्ताइछत्तकालेए, तुगे गगणतलमणुलिहंतसिहरे जालं तररयणपंजरमिलियव्व मणिकणगभियागे वियसियपत्तपुंडरीय तिलगरयणद्धचंद चित्ते अंतो बहिं सण्हे तवणिज्ज वालुया पत्थडे सुहफासे सस्सिरीयरूवे पासाईए दरिसणिज्जे अभिरूवे पडिरूवे । एवं सूरियविमाणे, गहविमाणे, णक्खत्तविमाणे, तारा विमाणे ॥सू० ७॥ छाया तावत् चन्द्रविमानं खलु भदन्त ? किं संस्थित प्रज्ञप्तम् १ तावत् अर्द्ध कपित्थक संस्थान संस्थितं सर्व स्फटिकमयं अभ्युद्गतोच्छितप्रहसितं विविधमणिरत्न भक्ति चित्रं वातोद्धत विजय वैजयन्ती पताका छत्रातिच्छत्रकलितं तुझं गगनतलमनुलिखच्छि खरं जालान्तररत्नपजरमिलितवन्मणिकनकस्तू पिकाकं विकसित पत्र पुण्डरीक तिलक रत्नार्द्धचन्द्रचित्रं अन्तो बहिश्लक्ष्णं तपनीयवालुकाप्रस्तटं सुखस्पर्श सश्रीकरूपं प्रासादीय दर्शनीय अभिरूप प्रतिरूपम् । एवं सूर्यविमानम् गृहविमानम्, नक्षत्रविमानम्, तारा विमानम् । सु० ॥७॥ व्याख्या—'ता चंद बिमाणेणं' इत्यादि प्रश्नसूत्रं सुगमम् । भगवानाह–'अद्ध कविते' इत्यादि 'अद्ध कविसंठाणसंठिए अकपित्थसंस्थानसंस्थितम् -उत्तानीकृतममात्रं यत् कपित्थं कपित्थाभिधं फलं तस्येव यत् संस्थानं । उत्तानीकृताईकपित्थसदृशं संस्थानं तेन संस्थितं तत्सदृशसंस्थानसंस्थितं चन्द्रविमानं भवति ? अत्राह-यदि चन्द्रविमान मुत्तानीकृतार्द्धमात्रकपित्थफलसंस्थानकमस्ति तदा उदयास्तकाले, अथवा तिर्यक् परिभ्रमच्च तत् कथमर्द्ध कपित्थफलाकारं नोपलभ्यते, तत्त शिरस उपरिवर्त्तमानं वर्तलाकारमुपलभ्यते, अर्द्धकपित्थस्य उपरि दूरमवस्थापितस्य पर भागदर्शनतो वर्तुलाकारतया दृश्यमानत्वात् अत्रोच्यते-इहार्द्धकपित्थफलाकारं चन्द्रविमानं सामस्त्येन ज्ञातव्यम् किन्तु चन्द्रविमानस्य यत् पीठं तद् अर्द्धकपित्थसंस्थानसंस्थितं वर्तते तस्य च पीठस्योपरि चन्द्र देवस्य प्रासादः, स च प्रासादस्तथा कथञ्चनापि व्यवस्थितो यथा पीठेन सह भयान वर्तुलाकारो भवति, सच दूरभावादेकान्ततः समगोलाकारत्वेनात्रतो जनानां प्रतिभासते ऽतो न कश्चिद्दोषः उक्तञ्च ।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy