SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ चन्द्रशतिप्रकाशिकाटीका० प्रा० १८ सु. १ भूमितः सूर्यचन्द्रयोरुच्चत्व निरूपणम् १३१ वदेत् वदतु कथयतु । एवं गोतमेन पृष्टे भगवान् एतद्विषये परतीर्थिकानां प्रतिपत्तयो यावत्यः सन्ति ताः प्रदर्शयति- 'तत्थ' इत्यादि, 'तत्थ' तत्र स्खलु चन्द्रादीनामुच्चत्वविषये 'इमाओ' इमाः वक्ष्यमाणाः 'पणवीसं' पश्चविंशतिः 'पडिवत्तीओ' प्रतिपत्तयः परतीर्थिकमत रूपाः 'पण्णत्ता' प्रज्ञप्ताः कथिता 'तं जहा' तद्यथा - ता यथा - ' तत्थ' इत्यादि 'तत्थ' तत्र पश्च विंशति प्रतिपत्तिवादिषु मध्ये 'एगे' एके प्रथमा: प्रतिपत्तिवादिनः ' एवं ' एवम् वक्ष्य माणप्रकारेण 'आहंसु' आहुः कथयन्ति 'तो' तावत् 'एग जोयणसहस्स' एकं योजन सहस्रम् ‘स्वरिए' सूर्य ‘उहृदं उच्चत्तेण' 'ऊर्ध्वम्-भूमिते उपरि उच्चत्वेन उच्चत्वमाश्रित्य चारं चरतीति योगः, तथा 'दिवट' द्वयं साधैकं योजनसहस्रम् 'चंदे' चन्द्रश्चारं चरति, उपसंहारेमाह-‘एगे' एके प्रथमाः ' एवं ' एवं पूर्वोक्त प्रकारेण आहंसु' आहुः कथयन्तीति प्रथमा प्रतिपत्तिः १ । ‘एगे पुण' एके द्वितीयाः पुनः 'एवमाहंसु' एवं वक्ष्यमाण प्रकारेण भाहुः कथयन्ति 'दो जोयणसहस्साई सूरिंग' द्वे योजनसह ने 'उड्ट' भूमेरूर्ध्व 'उच्च तेणं' उच्चत्वमाश्रित्य 'सूरिए' सूर्यश्वारं चरति, 'अड्ढाइज्जाई' अतृतीयानि साद्वे द्वे योजन सहस्रे इत्यर्थः 'चंदे' चन्द्रश्चारं चरति । 'एगे' ऐके द्वितीया: 'एत्रमाहंसु' एवं पूर्वोक प्रकारेण आहुः कथयन्तीति द्वितीया प्रतिपत्तिः २ । ' एवं ' पूर्वोक्तरूपेण 'एए णं' एतेन पूर्वप्रदर्शितेन 'अभिलावेणं' अभिलापेन आलापकप्रकारेण 'णेयव्वं' ज्ञातव्यम् इतोऽग्रेऽपि सर्वासु प्रतिपत्तिषु एतत्सदृशा एव आलापकाः कर्त्तव्याः केवल मुच्चत्वपरिमाणं पृथक् सूत्रोक्तानु सारेण विज्ञातव्यम् । तदेव दर्शयति- 'तिन्नि' इत्यादि " तिन्नि जोयण सहस्साई रिए त्रीणि योजनसहस्राणि सूर्यः, 'अट्ठाई चंदे' अर्द्ध चतुर्थानि अर्द्धेन चतुर्थेन सहितानि सार्द्धानि त्रीणीत्यर्थः योजन सहस्राणि चन्द्रः | ३ | ' चत्तारि जोयणसहस्साई सूरिए' चत्वारि योजन सहस्राणि सूर्यः 'अद्धपञ्चमाई चंदे' अर्द्ध पञ्चमानि पञ्चममं यत्र तानि सार्द्धानि चत्वारि योजनसहस्राणि चन्द्रः ४ | 'पंचजोयणसहस्साई सूरिए' पञ्च योजन सहस्राणि सूर्यः; 'अद्धछट्ठाई चंदे' अर्द्ध षष्ठानि अर्द्ध षष्ठं यत्र तानि सार्द्धानि प योजन सहस्राणि चन्द्रः ५। 'छ जोयणसहस्साई सूरिए' षड् योजनसहस्राणि सूर्यः, 'अद्धसत्तमाई चंदे' अर्द्ध सप्तमानि अर्द्ध सप्तमं यत्र तानि सार्द्धानि षड् योजन सहस्राणि चन्द्रः ६ । 'सत्तजोयणसहस्साई मूरिए' सप्त योजनसहस्राणि सूर्य:, 'अट्टमाई' अर्द्धष्ठमानि, अर्द्ध अष्टमं यत्र तानि सार्द्धाणि 'चंदे' चन्द्रः ७ । 'अट्टजोयणसहस्साई सूरिए' अष्ट योजनसहस्राणि सूर्यः, 'अद्धनवमाई' अर्द्धनवमानि अर्द्ध नवमं यत्र तानि सार्द्धाणि अष्ट योजन सहस्राणि 'चंदे' चन्द्रः ८ । 'नवजोयणसहस्साई सूरिए' नवयोजनसहस्राणि सूर्य: 'अद्धदसमाई' अर्द्धदशमानि अर्द्ध दशमं यत्र सानि नवयोजसहस्राणि 'चंदे' चन्द्रः ९ ।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy