SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ चरति 'तेरस सत्तट्टि भागाई' अन्ये त्रयोदश सप्तषष्टिभागास्ते 'जाई' यान् 'चंदे' चन्द्रः 'अप्पणो परस्स य चिणं' आत्मना परेण च चीर्णान् 'पडिचरइ' प्रतिचरति । 'एयावया' एतावता परिभ्रमणेन 'बाहिराणंतरे' बाह्यानन्तरमक्तिनं 'पच्चस्थिमिल्ले अद्धमंडले' पाश्चात्यमर्द्धमण्डलं 'समत्ते भवई' समाप्तं भवति । अथ पौरस्त्याचभागमाश्रित्याह- 'ता तच्चायणगए चंदे' तावत् तृतीयायनगतश्चन्द्रः 'पुरथिमिल्लाए भागाए' पौरस्त्याद् भागात् 'पविसमाणे' प्रविशन् 'बाहिर तच्चस्स' बाह्यतृतीयस्य सर्वबाह्यादाक्तनस्य 'पुरस्थि मिल्लस्स अद्धमंडलस्स' पौरस्त्यस्यार्द्धमण्डलस्य 'इगतालीसं सत्तद्विभागाई' एकचत्वारिंशतं सप्तषष्टिभागान् 'जाई चंदो' यान् चन्द्रः 'अप्पणो परस्स य चिण्णं' आत्मना परेण च चीर्णान् 'पडिचरइ' प्रतिचरति ततः परं परचीर्ण त्रयोदशभाग-स्वपर चीर्णत्रयोदश भागे ति षड् विंशति भागान् पुनश्चरतीति प्रदश्यते-'तेरस सत्तट्टि भागाई' अन्ये ते त्रयोदश सप्तषष्टि भागाः सन्ति 'जाइं चंदे' यान् चन्द्रः 'परस्स चिण्णं पडिचरइ' परेण चीर्णान् प्रतिचरति, पुनरन्ये च ते–'तेरस सत्तहि भागाई' त्रयोदश सप्तषष्टिभागा सन्ति 'जाई चंदे' यान् चन्द्रः 'अप्पणो परस्सय चिण्णं पडिचरई' आत्मना परेण च चोर्णान् प्रतिचरति 'एयावया' एतावता 'बाहिरतच्चे' बाह्य तृतीयं सर्व बाह्यान्मण्डलादाक्तनं तृतीयं 'पुरथिमिल्ले अदमंडले' पौरस्त्यमर्द्धमण्डलं 'समत्ते भवइ' समाप्तं भवति । सप्तषष्टे भगानां परिपूर्णजातत्वात् । मथ पाश्चात्यभागमाश्रित्य चन्द्रचारमाह-'ता तच्चायणगए' इत्यादि, 'ता' तावत् 'तच्चायभगए चंदे' तस्मिन्नेव तृतीयायने गतश्चन्द्रः 'पच्चत्थिमाए भागाए' पाश्चात्याद् भागात् 'पविसमाणे' प्रविशन् 'बाहिर चउत्थस्स' सर्व बाह्यान्मण्डलादर्वाक्तनस्य ‘पच्चथिमिल्लस्स अद्धमंडलस्स' पाश्चात्यस्यार्द्धमण्डलस्य 'अद्धसत्तट्ठिभागाई' अर्द्ध सप्तषष्टिभागान् तथा 'सत्तद्विमागंच' एकं च सप्तषष्टिभागं 'एक्कतीसधा छित्ता' एकत्रिंशद्धा छित्वा एकस्य सप्तषष्टिभागस्य एकत्रिंशतं भागान् कृत्वा तन्मध्यात् ते 'अट्ठारसभागाइं अष्टादशभागाः 'जाई चंदे' - यान् चन्द्रः 'अप्पणो परस्स य चिण्णं' अत्मना परेण च चीर्णान् 'पडिचरइ' प्रतिचरति । "यावया' एतावता परिभ्रमणेन 'बाहिरचउत्थे' बाह्यचतुर्थ सर्वबाह्यान्मण्डलादर्वाक्तनंचतुर्थ 'पच्चथिमिल्ले अद्धमंडले' पाश्चात्यमर्द्धमण्डलं 'समत्ते भवई' समाप्तं भवति । एवं च तत्परिसमाप्तौ चान्द्रो मासः परिपूर्णो जात इति । साम्प्रतं पूर्वोक्तमेव सर्वं प्रदर्शयन् चन्द्रमासमतमुपसंहारमाह-एवं खलु' इत्यादि एवं खलु' एवमुक्तेन प्रकारेण खलु निश्चितं 'चंदेणं मासेणं' चान्द्रेण मासेन चंदे' चन्द्रः 'तेरस चउप्पण्णगाई' त्रयोदश-त्रयोदश संख्यकानि, चतुष्पञ्चाशत्कानि चतुष्पञ्चाशद्राशिरूपाणि 'दुवे तेरसगाई' द्वे त्रयोदशके के ते इत्यमाह'जाइं चंदे' ये चन्द्रः 'परस्स चिण्णं' परेण चीर्णे 'पडिचरइ' प्रतिचरति, वर्तमानकालनिर्देशः
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy