SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ ५२४ चन्द्रप्राप्तिसूत्रे साम्प्रतं सूर्यनक्षत्रयोग भावना क्रियते स एव ध्रुवराशिः पञ्चोतरशतत्रयग्रमा: ( ३ ० ५) . प्रथम सूर्य जिज्ञासाया मेकेन गुण्यते जातस्तावानेव ततः 'अट्ठासीई पुरसो' इति पचनात् तस्मात् अष्टाशीतिः (पुष्यभागाः) शोध्यन्ते, स्थिते शेषे सप्तदशोत्तरे द्वे शते १२१७) ततः सप्तपष्टिः (६७ अश्लेषायाः शोध्यते स्थितं शेषं सार्द्धशतम् (१५०) ततः चतुस्त्रिंशदधिकं शतं (१३४) मधायाः शोध्यते, स्थिताः पश्चात् षोडश (१६), तत आगतम्- पूर्वफाल्गुनोनक्षत्रस्य चतु स्त्रंशदधिकशतसत्कान् षोडश भागानवगाह्य सूर्यः प्रथमं स्वकीयमृतुं परिसमापयति । एवं द्वितीय सूर्यत्त जिज्ञासायामपि स एव पञ्चोत्तरशतत्रयप्रमाणो ध्रुवराशिः द्वयुत्तरवृद्धयाऽत्र विभिर्गुण्य, जातानि नव शतानि पञ्चदशोत्तराणि (९१५) ततोऽष्टाशीतौ पुष्यस्य शोधितायां स्थितानि पश्चात् सप्तविंशत्यधिकानि अष्टौ शतानि (८२७), एभ्यः सप्तषष्टिरश्लेषायाः शोध्यते. स्थितानि शेषाणि षष्टयधिकानि सप्तशतानि (७६०) एभ्यश्चतुस्त्रिंशदधिकं शतं मघायाः शोध्यने, स्थितानि शेषाणि षड् विंशत्यधिकानि षट् शतानि, (६२६), एभ्यश्चतुस्त्रिंशदधिकं शतं पूर्वफाल्गुन्याः गोध्यते, स्थितानि शेषाणि द्विनवत्यधिकानि चत्वारि शतानि (४९२), एभ्योऽपि एकोत्तरं शतद्वय (२०१) मुत्तरफाल्गुन्याः शोध्यते स्थिते शेषे एकनवत्यधिके द्वे शते (२९१) पुनरप्येभ्य. अतुस्त्रिशदधिकं शतं (१३४) हस्तस्य शोध्यते, स्थितं सप्तपञ्चाशदधिकं शतम् (१५७), एभ्योऽi चतुस्त्रिंशदधिकं शतं (१३४) चित्रायाः शोध्यते, स्थिताः शेषास्त्रयोविंशतिर्भागाः (२३) तत मागतम् चतुस्त्रिंशदधिकशतभागानां स्वातेस्त्रयोविंशति सप्तषष्टि भागानवगाह्य सूर्यो द्वितीयं स्वकं यमृतुंपरिसमापयतीति एवं शेषेष्वपि तृतीय सूर्यत्तु मारभ्य एकोनत्रिंशत्तम सूर्यप्रयन्तेषु भावना कर्तव्या। अथान्तिमत्रिंशत्तम सूर्यर्तुजिज्ञासायामाह- अत्रापि स एव पञ्चोत्तरशतत्रयप्रमाणो वराशिद्वर्युत्तर वृद्धिक्रमेण त्रिंशत्तमे सूर्यत्तौ एकोनषष्टया गुण्यते, जातानि सप्तदशसहस्राणि नाशतानि तदुपरि पञ्चनवतिश्च (१७९९५)। एभ्यश्चतुर्दशसहस्राणि, षट् शतानि चत्वारिंशदधिकानि १४६४०) एतावत्परिमितै शोधनकैश्चत्वारः परिपूर्णा युगस्य संवत्सर चतुष्कसम्बन्धि चतुर्विशति सूर्यतु सत्का नक्षत्रपर्यायाः शोध्यन्ते स्थितानि पश्चात् पञ्च पञ्चाशदधिकानि त्रयस्त्रिंश छतानि (३३५५), अथ युगस्य पञ्चसंवत्सरसत्कानि पञ्चविंशतितमसूर्यत्तुत आरभ्य शित्तम सूर्य सपर्यन्तकानि शोधनकान्याह ततस्तेभ्यः पूर्वोक्तेभ्यः (३३५५) अष्टाशीतिः पुष्यस्य शोध्यते, स्थितानि पश्चात् सप्तषष्टयधिकानि द्वात्रिंशच्छतानि (३२६७) एभ्योऽष्टपञ्चाशदधिकानि द्वात्रिंशच्छतानि (३२५८) अश्लेषातो मृगशीर्षपर्यन्तानां नक्षत्राणां शोध्यन्ते, स्थिताः शेषा नव (९) एभिरार्द्रा न शुयति, तत आगतम् नवचतुस्त्रिंशदधिकशतभागान् आ सत्कानवगाह्य सूर्यस्त्रिंशत्तमं स्वकीय मृतुं परिसमापयतीति । इति सूर्यर्तवः समाप्ताः । साम्प्रतं चन्द्रघुन् प्रतिपादयति-तत्र चन्द्रर्तन चत्वारिशतानि द्वयुत्तराणि (४०२) भवन्ति, तथाहि- एकस्मिन्नक्षत्रपर्याये चन्द्रस्य घड् ऋतवो भवन्ति, चन्द्रस्य नक्षत्रपर्यायाश्च एकस्मिन् युगे सप्रषष्टि संख्यका भवन्तीतिमातषष्टिः पइभिर्गुण्यते.
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy