SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ३० चन्द्र प्रज्ञप्तिसूत्रे रात्रिर्भवति, सा च 'दोर्हि एगसट्टिभागमुहुत्तेहि' द्वाभ्यामेकषष्टिभागमुहूर्त्ताभ्यां 'ऊणा' ऊना न्यूना भवति, तथा 'दुवालसमुहुत्ते' द्वादशमुहूर्त्तः 'दिवसे भवइ' दिवसो भवति स च 'दोहिं एगसद्विभागमुहुत्तेर्हि' द्वाभ्यामेकषष्टिभागमुहूर्त्ताभ्यां 'अहिए' अधिको भवति अत आरभ्यरात्रेर्होन्यभिमुखत्वात् दिवसस्य च वृद्ध्यभिमुखत्वात् । 'से' अथ पुनश्च 'पविसमाणे' प्रविशन् अभ्यन्तरं गच्छन् 'सूरिए' सूर्यः 'दोच्चंसि' द्वितीये 'अहोरत्तंसि' अहोरात्रे 'बाहिरं' बाह्यं - पश्चानुपूर्व्या बाह्यमार्गतः समापतन्तं सर्व बाह्यमण्डलादर्वाक्तनं 'तच्चं मंडलं' तृतीयं मण्डलं 'उबसंकमित्ता' उपसंक्रम्य 'चारं चरई' चारं चरति । 'ता' तावत् 'जया णं' यदा खलु 'सरिए' सूर्य: 'वाहिरं' बाह्यं पूर्वोक्तरूपं तच्चं मंडलं' तृतीयं मण्डलं 'उवसंकमित्ता' उपसंक्रम्य 'चारं चरइ' चारं चरति 'तया णं' तदा खलु 'अट्ठारसमुहुत्ता राई भवइ' अष्टादशमुहूर्त्ता रात्रिर्भवति, सा च 'चउहिं एगसद्विभागमुहुत्तेर्हि' चतुभिरेकषष्टिभागमुहूर्तेः 'ऊणा' ऊना भवति, प्रतिरात्रि द्वाभ्यां मुहूत्तैकषष्टिभागाभ्यां हीनत्वक्रमसद्भावात्, 'दुवालसमुहुत्ते दिवसे भवइ' द्वादशमुहूर्त्ते दिवसो भवति, स च ' चउहिं एगसट्टिभागमुहुत्ते हि' चतुर्भिश्कषष्टिभागमुहूत्तैः 'अहिए' अघिको भवति प्रतिदिवस द्वाभ्यामेकषष्टिभागमुहूर्त्ताभ्यां वृद्धित्वक्रमसद्भावात् । 'एवं' एवम् अनयारीत्या 'खलु' निश्चितं 'एएणं' एतेन अव्यवधानप्रदर्शितेन 'उबाएणं' उपायेन प्रकारेण 'पविसमाणे' प्रविशन् एकतो द्वितीयमभ्यन्तरं मण्डलं प्रति गच्छन् 'सूरिए' सूर्यः 'तयाणंतराओ' तदनन्तरात् एकस्मादनन्तरभूतात् 'मंडलाओ' मण्डलात् 'तयाणंतरं' तदनन्तरं एकस्मादवतनं द्वितीयं ‘मंडलं' मण्डल ‘संकममाणे' संक्रामन् प्राप्नुवन् ' दो दो' द्वौ द्वौ ' एगसट्टिभागमुहुत्ते' एकषष्टिभागमुहूर्त्तो' 'एगमेगे मंडले' एकैकस्मिन् मंण्डले 'राइखेत्तस्स' रात्रिक्षेत्रस्य रात्रिभागस्य 'निब्बुड्ढेमाणे२' निर्वर्धयन् २ हापयन् २, तथा 'दिवसखेत्तस्स' दिवसक्षेत्रस्य दिवसभागस्य 'अभिवुड्ढेमाणे२' अभिवर्धयन् २ 'सव्वमंतरमंडलं' स र्वाभ्यन्तरमण्डलं तृतीया - च्चतुर्थे चतुर्थात्पञ्चममिति क्रमेण सर्वेभ्यो मण्डलेभ्यो यदभ्यन्तरं पश्चानुपूर्व्या चतुरशीत्यधिकशततमं त्र्यशीत्यधिकशतसंख्य काहोरात्रैर्गम्यमानं पूर्वानुपूर्व्या च सर्वप्रथम' मण्डलं 'उवसंकमित्ता' उपसंक्रम्य 'चारं चरइ' चारं चरति । 'ता' तावत् 'जया णं' यदा खलु 'सूरिए' सूर्यः 'सव्वबाहिराओ मंडलाओ' सर्वबाह्यात् मण्डलात् 'सव्वमंतरमंडल' सर्वाभ्यन्तरमण्डलं 'उवसंकमित्ता' उपसंक्रम्य 'चारं चरइ' चारं चरति 'तया णं तदा' खलु 'सव्वबाहिरं मंडलं' सर्वबाह्यं मण्डलं 'पणिहाय' प्रणिधाय आश्रित्य अभ्यन्तरप्रयाणसमये तत्र सूर्यस्य स्थितत्वात्तमपरिगणय्यतदर्वाक्तन द्वितीयमण्डलादारभ्येत्यर्थः 'एगेणं' एकेन 'तेयासीएणं' त्र्यशीतिकेन त्र्यशीत्यधिकेन 'राईदियस एणं' रात्रिन्दिवशतेन त्र्यशीत्यधिकशतसंख्यकै रहोरात्रैरित्यर्थः ' तिण्णि' त्रीणि 'छावट्टी' षट्षष्टिः ' एगसट्टिभागमुहुत्तसयाई' एकषष्टिभागमुहूर्त्तशतानि षट्षष्ट्यधि
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy