SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा.१० प्रा० प्रा०२० सू. ५ लक्षणसंवत्सरनिरूपणम् ४१३ __ तावत् शनैश्चर संवत्सरः खलु अष्टाविंशतिविधः प्रज्ञप्तः, तद्यथा-अभिजित् १ श्रवणः २ यावत् उत्तराषाढा । यद्वाशनैश्चरो महाग्रहः त्रिशद्भिः संवत्सरैः सर्वं नक्षत्रमण्डल समानयति । सू० ५॥ ॥दशमस्य प्राभृतस्य विशतितमं प्राभृतप्राभृतं समाप्तम् ॥१८-२०॥ व्याख्या-'ता लक्खणसंवच्छरे' इति, 'ता' तावत् 'लक्खणसंवच्छरे' लक्षणसंवत्सरः पूर्वोक्तरूपः 'पंचविहे' पञ्चविधः पञ्चप्रकारकः 'पण्णत्ते' प्रज्ञप्तः कथितः, 'तं जहा' तद्यथा-ते यथा 'णक्खत्ते' नाक्षत्रः नक्षत्रसंवत्सरः १, 'चंदे' चान्द्रः चन्द्रसंवत्सरः २, 'उऊ' आर्त्तवः ऋतुसंवत्सरः ३, 'आइच्चे' आदित्यः आदित्यसंवत्सरः ४, 'अभिवढिए' अभिवर्द्वितः अभिवतिसंवत्सरः पञ्चमः ५ । ते नक्षत्रादि संवत्सराः यथोक्तरात्रिन्दिवप्रमाणरूपलक्षणोपेता केवलं न भवति किन्तु तेभ्यः पृथग्भूता अन्यलक्षणोपेता अपि भवन्तीत्याह-'ता लक्खणसंवच्छरे' इत्यादि 'ता' तावत् 'लक्खणसंवच्छरे' लक्षणसंवत्सरे नाक्षत्रादि पञ्च संवत्सरात्मके 'पंचविहा लक्खणा' पञ्चविधानि, लक्षणानि प्रत्येकस्मिन् पृथक् पृथक् प्रकारकाणि 'पण्णत्ता' प्रज्ञप्तानि कथितानि 'तं जहा' तद् यथा-तानि यथा-तत्र प्रथमं नाक्षत्रसंवत्सरलक्षणानि प्रदर्शन्ते–'समगं' इत्यादि, यस्मिन् संवत्सरे 'समगं' समकम्-एककालमेव ऋतुभिः सहैव 'णक्खत्ता' नक्षत्राणि उत्तराषाढा प्रभृतीनि 'जोयं जोएंति' योगं युञ्जन्ति चन्द्रेण सह योगं कुर्वन्ति, तां पौर्णमसी परिसमापयन्तीत्यर्थः १ । तथा 'समगं' समकम् एककालमेव 'उऊ' ऋतवः षडपि समकालमेव 'परिणमंति' परिणमन्ति परिणामं प्राप्नुवन्ति तस्मिन् संवत्सरे, तया तया परिसमाप्यमानया पौर्णमास्या सहैव निदाधाद्या ऋतवोऽपि परिसमाप्तिमुपयान्तीति भावः, अयमाशयः यस्मिन् संवत्सरे माससदृशनामकैनक्षत्रैस्तस्य तस्य ऋतोः पर्यन्तवर्ती मासः परिसमाप्यते, तां तां पौर्णमासी परिसमापयत्सु मासेषु तया तया पौर्णमास्या सह निदाधाद्या ऋतवोऽपि परिसमाप्ति मुपयान्ति, तथाहि-यथा उत्तराषाढा नक्षत्रमाषाढी पौर्णमासी परिसमापयति तथा तया आषाढपौर्णमास्या सह निदाध ऋतुरपि परिसमाप्ति प्राप्नोति, अतोऽ सौ नक्षत्रसंवत्सरः नक्षत्रानुरोधेन तस्य तथा तथा परिणमनसद्भावात् २ । तथा 'नच्चुण्हे' नात्युष्णाः न विद्यते अतिशयेन-उष्णरूपः परितापो यस्मिन् स नात्युष्णाः उष्णताधिक्याभावात् ३। तथा नाइसीए' नातिशीतः शैत्याधिक्याभावात् । तथा 'बहृदओ' बहूदकः बहु पुष्कलम् उदकवर्षणं यस्मिन् स बहूदकः वर्षणाधिक्यात् ५ । एतादृश पञ्च लक्षणयुक्तः 'नक्खत्ते' नाक्षत्र: नक्षत्रसंवत्सरः ‘होइ' भवतीति ॥१॥ अथ चान्द्रसंवत्सरलक्षणान्याह-'ससिसमग' इत्यादि, यस्मिन् संवत्सरे विसम चारिणक्खत्ता' विषमचारीणि मासविसदृशनामानीत्यर्थः 'ससिसमग' शशिना समकं शशिना सह 'पुण्णमासिं' तां तां पौर्णमासी 'जोइंति' युञ्जन्ति परिसमापयन्ति तथा यः
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy