SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रा. १८ चन्द्रादित्यचारनिरूपणम् ३६७ यावत् उत्तराषाढ़ानक्षत्र सप्तषष्टि चारान् चन्द्रेण साधं योग युनक्ति । तावत् कथं ते आदित्य चारा आख्याताः ? इति वदेत् । तावत् पञ्च सांवत्सरिके सलु युगे अभिजिन्नक्षत्रं पञ्च चारान् सूरेण साधं योग युनक्ति ॥सू० १॥ दशमस्य प्राभृतस्याष्टादशं प्राभृतप्राभृतं समाप्तम् ॥१०॥१८॥ व्याख्या—'ता कहते चारा' इति 'ता' तावत् 'कह' कथं केन प्रकारेण कया संख्यया 'ते' त्वया 'चारा आहिया' चाराः संचरणरूपाः आख्याताः ? 'ति वएज्जा' इति वदेत् वदतु कथयतु हे भगवन् १। एवं गौतमेन पृष्ठे भगवानाह-'तत्थ खलु' तत्र चारविचारे खलु 'इमे वक्ष्यमाणाः 'दुविहा चारा पण्णत्ता' द्विविधाः चाराः प्रज्ञप्ताः 'तंजहा' तद्यथा--'आइच्चचारा य चंदचारा य' आदित्यचाराश्च चन्द्रचाराश्च । प्रथमं गौतमश्चन्द्रचारविषये पृच्छति-'ता' तावत् 'क' कथं केन प्रकारेण संख्यामधिकृत्य 'चंद चारा' चन्द्रचारा 'आहिया' आख्याता 'तिवएज्जा' इति वदेत् वदतु हे भगवन् ? । भगवानाह'ता' तावत् 'पंच संवच्छरिएणं' पञ्च सांवत्सरिके चन्द्र-चन्द्रा-ऽभिवर्धित-चन्द्रा-ऽभिवर्धितरूप पञ्च संवत्सरात्मके खलु 'जुगे' युगे 'अभिईणक्खत्ते' अभिजिन्नक्षत्र 'सत्तसहिचारे' सप्तषष्टि चारान् यावत् सप्तषष्टिचारपर्यन्तं "चंदेण सद्धिं जोयं जोएइ' चन्द्रेण सार्ध योगं युनक्ति, एकस्मिन् युगे पञ्च संवत्सरात्मके चन्द्रोऽभिजिन्नक्षत्रेण सह संयुक्तो भूत्वा सप्तषष्टिसंख्यकान् चारान् चरतीति भावः, एकस्मिन् युगे चन्द्राभिजिन्नक्षत्रयोः सप्तषष्टिवारान् संयोगो भवतीति तात्पयम् । एतत्कथं-ज्ञायते ? अत्राह-इह योगमाश्रित्य चन्द्रस्य समस्तनक्षत्रचक्रपरिभ्रमणपरिसमाप्तिरेकेन नक्षत्रमासेन जायते, अतः प्रत्येकस्मिन् नक्षत्रमासे एकैकस्मिन्नहोरात्रे चन्द्रेण सह एकैकनक्षत्रयोगसंभवाद् युग सम्बन्धिषु सप्तषष्टिमार्गेषु सप्तषष्टिवारान् चन्द्रस्याभिजिता सह योगसमुपपत्तिर्लभ्यते ततश्चन्द्रोऽभिजिता नक्षत्रेण सह संयुक्तः सन् युगमध्ये सप्तषष्टिसंख्यकान् चारान् चरतीति सिद्धयति । एवं रीत्या सर्वनक्षत्रैः सह चन्द्रयोगो विज्ञेयः, यतः येन नक्षत्रेण सह यस्मिन् नक्षत्रमासे चन्द्रस्य योगो भवति स पुनश्चन्द्रस्य योग स्तेन नक्षत्रेण सह द्वितीये नक्षत्रमासे भविष्यति प्रत्येकमासे एकैकनक्षत्रेण सह चन्द्रयोगसद्भावात् । एवम् 'सवणेणं णक्खते' श्रवणः खलु नक्षत्रं 'सत्तर्हि चारे' सप्तषष्टिं चारान् यावत् 'चंदेण सद्धिं' चन्द्रेण साधै 'जोयं जोएइ' योगं युनक्ति । ‘एवं जाव' एवम्-अनेन क्रमेण यावत् यावत्पदेन धनिष्ठात आरभ्य पूर्वाषाढा नक्षत्रपर्यन्तानि पञ्चविंशतिरपि नक्षत्राणि एकस्मिन् युगे प्रत्येक मधिकृत्य सप्तषष्टिं २ चारान् चन्द्रेण सह योगं युञ्जन्ति । अथाष्टाविंशतितमं नक्षत्रमाह- 'उत्तरासाढाणक्खत्ते' उत्तराषाढानक्षत्रं 'सत्तद्विचारे' सप्तषष्टिं चारान् 'चंदेण सद्धिं जोयं जोएई' चन्द्रेण सार्ध योगं युनक्तीति २८। अथादित्यचारान् प्रदर्शयति-गौतमः पृच्छति-'ता कहते आइच्चचारा' इत्यादि, 'ता' तावत् 'कह' कथं कया रीत्या कया संख्ययेत्यर्थः 'ते' त्वया । 'आइच्च चारा' आदित्य
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy