SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रा. १६ अष्टाविंशतिनक्षत्राणां गोत्राणि ३६३' भवो ज्ञातव्यः-यन्नक्षत्रं शुभाशुभैप्रेहैराक्रान्तं भवेत् तद्गोत्रोत्पन्नस्य पुरुषस्य यथाक्रमं शुभमशुभं वा भवति यथा –अभिजिन्नक्षत्रे यदि शुभग्रहो वर्तते तदा मुद्बलायनगोत्रोत्पन्नस्य पुरुषस्य शुभ फलजनकं भवतीत्येवमधिकृत्य गोत्राणां प्रश्नोपपत्तिर्जातेति । अत्र जम्बूद्वीप प्रज्ञप्तिप्रोक्ता गोत्रनामसंग्राहिकाश्चतस्रो गाथाः प्रदान्ते "मोग्गल्लायण १ संरवायणे २ य तह अग्गभाव ३ कण्णल्ले ४। तत्तोय जोउकण्णे ५, धणंजए ६ चेव बोद्धव्वे ॥१॥ पुस्सायण, अस्सायण ८, भग्गवेसे ९ अग्गिवेसे १० य । गोयम ११ भारदाए १२, लोहिच्चे १३ चेववासिढे १४ ॥२॥ उज्जायण १५ मंडव्वायणे १६ य पिंगायणे १७ य गोवल्ले १८ । कासव १९ कोसिय २० दब्भिय २१ चाम (भाग) रच्छा २२ । य सुंगाए २३ ॥३॥ गोलव्वायण २४ तिगिच्छायणे २५ य कच्चायणे २६ हवइ मूले। तत्तो य वज्झियायण २७ वग्धावच्चे २८ य गोत्ताई ॥४॥" छाया-मुद्गलायनं १ संख्यायनं २ च तथा अग्रभाबम् ३ कर्णलायनम् ४, ततश्चजोउकर्णि ५ धनञ्जयं ६ चैव बोद्धव्यम् ॥१॥ पुष्यायनं ७ अश्वायनं ८ भग्नवेश्यं ९ च अग्निवेश्यं १० च । गौत्तमं ११ भारद्वाजं १२ लौहित्यं १३ चैव वाशिष्ठम् १४ ॥२॥ ऊर्जायनं १५ माण्डव्यायनं १६ च पिङ्गायनं १७ च गोवल्लं १८। काश्यपं १९ कौशिकं २० दर्भिकं २१ चाम (भाग) रच्छं २२ च सुंगाकम् २३ ॥३॥ गोलव्यायनं २४ चिकित्सायनं २५ च कात्यायनं - २६ भवति मूले। ततश्च वज्झिकायनं २७ व्याघ्रापत्यं २८ च गोत्राणि ॥४॥ इति सूत्र १॥ इति चन्द्रप्रज्ञप्तिसूत्रे चन्द्रज्ञप्तिप्रकाशिका व्याख्यायां दशमस्य प्राभृतस्य षोडशं प्राभृतप्राभृतं समाप्तम् ॥१०।१६॥ दशमस्य प्राभृतस्य सप्तदशं प्राभृतप्राभृतम् । गतं दशमस्य प्राभृतस्य षोडशं प्राभृतप्रामृतम्, तत्र नक्षत्राणां गोत्राण्यभिहितानि । अथ सप्तदशं प्राभृतप्राभृतं प्रारभ्यते, अत्र नक्षत्राणां भोजनानि प्रतिपादनीयानीति तद्विषयं सूत्रमाह–'ता कहते भोयणा' इत्यादि । मूलम्-ता कहते भोयणा आहिया ? तिवएज्जा। ता एएसि णं अहावीसाए णक्खत्ताणं कत्तियाहि दहिणा भोच्चा कज्जं साहिति !, रोहिणीहिं वसभमंसं भोच्चा कज्ज साहिति २, मिगसिरेणं मिगमंसं भोच्चा कज्जं साहिति ३, अदाहिं णवणीएणं भोच्चा कज्ज साहिति ४, पुणव्वसुणा घएणं भोच्चा कज्ज साहिति ५, पुस्सेणं खीरेणं
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy