SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा.१० प्रा०प्रा ११ चन्द्रसूर्यमण्डलमार्गतदन्तरंच ३५१ न्तरबाह्येषु चन्द्रमण्डलान्तरेषु द्वादश द्वादश सूर्यमार्गा भवन्ति । तदतिरिक्तेषु पञ्चमादिदशमपर्यन्तेषु षट्सु च चन्द्रमण्डलान्तरेषु त्रयोदश सूर्यमार्गा भवन्ति, उक्तञ्च-- चंदंतरेसु अट्ठसु, अभितरबाहिरेसु सूरस्स । बारस बारस मग्गा, छसु तेरस तेरस भवंति ॥१॥ इति छाया--- चन्द्रान्तरेषु अष्टसु, अभ्यन्तरबाह्येषु सूरस्य । द्वादश द्वादश मार्गाः षट्सु त्रयोदश त्रयोदश भवन्ति ॥१॥ "इति चन्द्रप्रज्ञप्तिसूत्रे चन्द्रज्ञप्ति प्रकाशिकायां टीकायां दशमस्य प्राभृतस्य एकादशं प्राभृतप्राभृतं समाप्तं १०-११ । । दशमस्य प्राभृतस्य द्वादश प्राभृतप्राभृतम् । गतमेकादशं प्राभृतप्राभृतम्, तत्र चन्द्रमण्डलानि, तदन्तराणि सूर्यमार्गाश्च प्रदर्शिताः, अत्र च नक्षत्राणां देवताध्ययनानि वक्तव्यानोत्यधिकृत्य द्वादशं प्राभृतप्रामृतं प्रारभ्यते, तस्य चेदं सूत्रम् 'ता कहं ते देवयाणं अज्झयणा' इत्यादि । मलम् -- ता कहं ते देवयाणं अन्झयणा आहिया ? तिवएज्जा-ता एएसिणं अट्ठावीसाए नक्खत्ताणं अभिई णक्खत्ते बंभदेवयाए पण्णत्ते १ । सवणे णक्खत्ते विण्हुदेवयाए पण्णत्ते २ । एवं जहा जंबूद्दीवपण्णत्तीए जाव उत्तरासाढा णक्खत्ते विसुदेवयाए पण्णत्ते ॥सू० १॥ छाया तावत् कथं ते देवतानां अध्ययनानि आख्यातानि ? इति वदेत् । तावत् एतेषां खलु अष्टाविंशतेः नक्षत्राणां अभिजित् नक्षत्रं किं देवताकं प्रशप्तम् ? ब्रह्मदेवताकं प्रज्ञप्तम् १ । श्रवणनक्षत्रं किं देवताकं प्राप्तम् ? विष्णु देवताकं प्रज्ञप्तम् २। एवं यथा जम्बू. द्वीपप्रज्ञप्त्यां यावत् उत्तराषाढानक्षत्रं विष्वग्देवाकं प्रज्ञतम् २८ ॥सू० १॥ दशमस्य प्राभृतस्य द्वादशं प्राभृतप्राभृतं समाप्तम् ॥१० । १२॥ व्याख्या-'ता कहं ते' इति 'ता' तावत् 'कह, कथं केन प्रकारेण हे भगवन् ! 'ते' त्वाया 'देवयाणं' देवतानां नक्षत्राधिष्ठातृणां 'अज्झयणा' अध्ययनानि-अधीयन्ते ज्ञायन्ते यै स्तानि अध्ययनानि अभिधानानि नाभानोतिभावः 'आहिया' आख्यातानि कथितानि 'तिवएज्जा' इति वदेत् कथयेत्, प्रतिपादयन्तु भवन्तः, इति गौतमेन प्रश्ने कृते भगवानाह– 'ता' तावत् 'एएसिणं' एतेषां खलु 'अट्ठावीसाए णक्खत्ताणं' अष्टाविंशतेर्नक्षत्राणां मध्ये 'अभिई णक्खत्ते' अभिजिन्नक्षत्रं 'बंभदेवयाए' ब्रह्मदेवता ब्रह्माभिधदेवताकं 'पण्णत्तं' प्रज्ञप्तम् । अभिजि-न्नक्षत्रस्य ब्रह्माभिधो देवोऽधिष्ठाताऽस्ति, एवमग्रेऽपि सर्वत्र योज्यम् । 'सवणे णक्खत्ते' श्रवणनक्षत्रं
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy