SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ wwwww ३३६ चन्द्रप्राप्तिसूत्रे लवणेणं भंते समुद्दे केवइयं ओगाहित्ता केवइया चंदमंडला पण्णत्ता ? गोयमा ! लबणे णं समुदे तिणि तोसाइं जोयणसयाइं ओगाहित्ता एत्थ णं दस चंदमंडला पण्णत्ता एवामेव सपुब्वावरेणं जम्बूद्दीवे लवणे य पण्णरस चंदमंडला भवंतीति अक्खायं ॥ छाया—जम्बूद्वीपे खलु भदन्त ! द्वीपे कियत्कं (क्षेत्र) अवगाह्य कियन्ति चन्द्रमण्डलानि प्रज्ञप्तानि ? गौतम ! जम्बूद्वीपे खलु द्वीपे अशोतं (अशीत्यधिकं ) योजनशतम् अवगाह्य अत्र, खलु पञ्च चन्द्रमण्डलानि प्रज्ञतानि । लवणे खलु भदन्त! समुद्रे कियत्कं (क्षेत्रं ) अवगाह्य कियन्ति चन्द्रमण्डलानि प्रज्ञतानि ? गौतम ! लवणे खलु समुद्रे त्रीणि त्रिंशत् योजनशतानि अवगाह्य अत्र खलु दश चन्द्रमण्डलानि प्रज्ञप्तानि । एवमेव सपूर्वापरेण जम्बूद्वीपे लवणे च पञ्चदश चन्द्रमण्डलानि भवन्तीति आख्यातम् ॥ अस्य व्याख्या जम्बूद्वीपप्रज्ञप्तिसूत्रस्य मत्कृतायां........ऱ्याख्यायां विलोकनीयेति । अथ भगवान् चन्द्रमण्डलानां नक्षत्रादिना सह योगं प्रदर्शयति-ता एएसि गं' इत्यादि, 'ता' तावत् 'एएसि गं' एतेषां खलु 'पण्णरसण्ह' पञ्चदशानां 'चंदमंडलाणं' चन्द्रमण्डलानां मध्ये 'अस्थि ति, सन्ति एतादृशानि 'चंदमंडला' चन्द्रमण्डलानि 'जे णं' यानि खलु 'सया' सदा सर्वकालं ‘णक्खत्तेहिं' नक्षत्रैः 'अविरहिया' अविरहितानि युक्तानि तिष्ठन्ति ! 'अस्थि सन्ति कियन्ति एतादृशानि 'चंदमंडला' चन्द्रमण्डलानि 'जेणं' यानि खलु 'सया' सदा सर्वकालं 'णक्खत्तेहि' नक्षत्रैः 'विरहिया' विरहितानि नक्षत्रयोगवर्जितानि तिष्ठन्ति २। 'अत्थि' सन्ति कियन्ति 'चंदमंडला' चन्द्रमण्डलानि 'जेणं' यानि खलु 'रविससि नक्खत्ताणं रविशशिनक्षत्राणां रविशशिनक्षत्राण्याश्रित्य 'सामण्णा' सामान्यानि सर्वसाधारणानि तिष्ठन्ति, येषु चन्द्रमण्डलेषु रविरपि गच्छति शश्यपि गच्छति नक्षत्राण्यपि गच्छन्तित्यतः सूर्यचन्द्रनक्षत्रेति सर्वेषामपि भोग्यानीति भावः ३ । 'अत्थि' सन्ति कियन्ति एतादृशानि 'चंदमंडला' चन्द्रमण्डलानि 'जे णं' यानि खलु 'सया' सदा सर्वकालं 'आइच्चेहि' आदित्याभ्यां जम्बूद्वीपे सूर्यद्वयस्य सद्भावात् द्वाभ्यां सूर्याभ्यां 'विरहिया' विरहितानि सूर्याभोग्यानि तिष्ठन्ति न तेषु कदापि द्वावपि सूर्योचारं चरत इति भावः । ४ एवं भगवता सामान्येन प्रोक्ते सति गौतमः एकैकशश्चचन्द्रमण्डलविषये विशेषावबोधार्थ पुनः पृच्छति 'ता एएसिणं' इत्यादि, 'ता' तावत् 'एएसि णं' ? एतेषां खलु 'पण्णरसण्हं' पञ्चदशानां 'चंदमंडलाणं' चन्द्रमण्डलानां मध्ये 'कयरे' कतमानि कानि कियन्ति 'चंदमंडला' चन्द्रमण्डलानि सन्ति 'जे णं' यानि खलु 'सया' सदा 'णक्खत्तेहि नक्षत्रैः अविरहिया' अविरहितानि विरहरहितानि युक्तानीत्यर्थः तिष्ठन्ति ! १। 'जाव' यावत्, अत्र यावत्पदेन पूर्व भगवता प्रोक्तमालापकद्वयमत्र वाच्यम्, तथाहि-कानि चन्द्रमण्डलानि सन्ति यानि सदा नक्षत्रविरहितानि नक्षत्रभोगवर्जितानि तिष्ठिन्ति २। तथा कानि चन्द्रमण्डलानि सन्ति यानि
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy