SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा० १०-४ सू १ योगस्यादिनिरूपणम् २५५ यथा उत्तराभाद्रपदा तथा बोध्या, सा चैवम्-तावत् उत्तराषाढा खलु नक्षत्रम् उभयभागं दूयर्धक्षेत्रं पञ्चचत्वारिंशन्मुहूर्त तत्प्रथमतया प्रातः चन्द्रेण सार्ध योगं युनक्ति, तद्दिवसं ततः अपरां रात्रि ततः पश्चात् राज्यनन्तरम् अपरं दिवस यावत् चन्द्रेण सह तिष्ठति एवं खलु उत्तराषाढानक्षत्रं द्वौ दिवसौ एकां च रात्रि यावत् चन्द्रेण सार्ध योगं युनक्ति योगं युक्त्वा योगम् अनुपरिवर्तयति, योगम् अनुपरिवर्त्य सायं चन्द्रम् अभिजिच्छु वणाभ्यां समर्पयति ।२८। एवमिदम् अभिजित आरभ्य उत्तराषाढापर्यन्तम् अष्टाविंशतिनक्षत्रात्मक नक्षत्रचक्रं चन्द्रेण साधू योगं युनक्तीति । इदं योगप्रकारेण पञ्चदश मुहूर्तात्मकदिवस- पञ्चदशमुहूर्तात्मकरात्रिरूपसमदिवसरात्रिं समयगतं विज्ञेयम्, नक्तं भागनक्षत्रस्य पञ्चदशमुहूर्तत्वेन, व्यर्धक्षेत्रनक्षत्रस्य च पञ्चचत्वारिंशन्मूर्त्तत्वेन प्रतिपादनात् तदेवं बाहुल्यमाश्रित्य पूर्वोक्तप्रकारेण यथोक्तकालेषु नक्षत्राणि चन्द्रेण सार्ध योगं युञ्जन्ति कानिचित् पूर्वभागानि, कानिचित् पश्चाद्भागानि कानिचित् नक्तंभागानि कानिचिच्च उभयभागानि कथितानीति ॥सूत्रम् १ ।। इति श्री चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रप्रज्ञप्तिप्रकाशिकाटीकायां दशमस्य प्राभृतस्य चतुर्थं प्रामृतप्राभृतं समाप्तम् ॥ १०-४ ॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचकपञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहुन्छत्रपति कोल्हापुरराजप्रदत्त "जैनशास्त्राचार्य" पदभूषित -कोल्हापुर राजगुरु बालब्रह्मचारि-जैनशास्त्राचार्य-जैनधर्मदिवाकर श्रीघासीलालबति-विरचितायां चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रज्ञप्तिप्रकाशिका ख्यायां व्याख्यायाम् दशमस्य प्राभृतस्य चतुर्थं प्राभृतप्राभृतं समाप्तम् ॥१०-४॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy