SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ चन्द्रशतिप्रकाशिका टीका प्रा०-८ सू० १ सूर्यस्य उदयसंस्थितिनिरूपणम् १८९ भवति, 'जया णं' यदा खलु 'उत्तरड्ढे ' उत्तरार्धे 'सत्तरसमुहुत्ते दिवसे भवइ' सप्तदशमुहूर्त्तो दिवसो भवति 'तया णं' तदा खलु 'दाहिणड्ढे वि' दक्षिणार्धेऽपि 'सत्तरसमुहुत्तो दिवसो भवइ' सप्तदशमुहूर्त्ती दिवसो भवति । ' एवं ' एवम् अनया रीत्या 'एएणं' एतेन पूर्वोक्तेन 'अभिलावेणं' अभिलापेन पूर्वोक्ताभिलापानुसारेण - एकैकमुहूर्त्तहान्या षोडशमुहूर्त्तदिवसादारभ्य त्रयोदशमुहूर्त्तदिवसपर्यन्तमभिलापाः कर्त्तव्या इति भावः । तदेवाह - 'सोलसमुहुत्ते' घोडशमुहूर्त्तः, 'पण्णरसमुहुत्ते' पश्चदशमुहूर्तः, 'चोद्दसमुहुत्ते' चतुर्दशमुहूर्त्तः, 'तेरसमुहुत्ते त्रयोदशमुहूर्त्तः । एषामालापकाः स्वयमूहनीयाः । अथ द्वादशमुहूर्त्तविषये सूत्रकारः स्वयमाह - 'ता जया णं' इत्यादि । 'ता' तावत् 'जया णं' यदा खलु ' दाहिणड्ढे ' दक्षिणार्धे बारसमुहुत्ते दिवसे भवइ' द्वादशमुहूर्त्ता दिवसो भवति 'तथा णं' तदा खलु 'उत्तरड्ढे वि' उत्तरार्धेऽपि 'बारसमुहुत्ते दिवसे भव' द्वादशमुहूर्त्ता दिवसो भवति 'ता' तावत् 'जया णं' यदा खलु 'उत्तरड्ढे बारसमुहुत्ते दिवसे भव' उत्तरार्धे द्वादशमुहूर्त्ता दिवसो भवति ' तथा णं' तदा खल 'दाहि गड्ढेवि बारसमुहुत्ते दिवसे भवः' दक्षिणार्धेऽपि द्वादशमुहूर्त्ता दिवसो भवति । 'तया णं' तदा अष्टादशमुहूर्त्तादि दिवसकाले खलु 'जंबुद्दीवे दीवे' जम्बुद्वीपे द्वीपे 'मंदरस्स पव्त्रयस्स' मन्दरस्य पर्वतस्य 'पुरस्थिमपच्चत्थि मेणं' पौरस्त्यपाश्चात्ये पूर्वस्यामपरस्यां च दिशि पूर्वपश्चिमयोर्दिशोरित्यर्थः 'सया' सदा सर्वदा सर्वकाले 'पण्णरसमुहुत्ते दिवसे भवई' पञ्चदशमुहूर्त्तो दिवसो भवति, तथा 'सया' सदा सर्वदा सर्वकाले 'पण्णरसमुहुत्ता राई भवई' पञ्चदशमुहूर्त्ता रात्रिर्भवति न तत्र न्यूनाधिकानि रात्रिंदिवानि भवन्तीति भावः । कुतः किं तत्र कारणमित्याह - ' अवट्टिया णं' अवस्थितानि सर्वदैकप्रमाणानि खलु 'तत्थ' तत्र मन्दरपर्वतस्य पूर्वस्यां पश्चिमायां च दिशि 'राईदिया' रात्रिन्दिवानि पण्णत्ता' प्रज्ञप्तानि कथितानि अस्माकं पूर्वाचार्यैः 'समणाउसो' श्रमणायुष्मन्तः हे श्रमणाः हे आयुष्मन्तः चिरजीविनः शिष्याः !, उपसंहारः -- ' एगे' एके प्रथमा: प्रतिपत्तिवादिनः ' एवं ' एवं - पूर्व प्रदर्शितप्रकारेण 'आहंस' आहुः कथयन्ति प्रतिपादयन्ति । एषा प्रथमा प्रतिपत्तिः ॥ १॥ अथ द्वितीयां प्रतिप्रत्तिमाह - 'एगे पुण' इत्यादि । 'एगे' एके द्वितीयप्रतिप्रत्तिवादिनः पुनः ' एवं ' एवं वक्ष्यमाणप्रकारेण 'आहंसु' आहुः कययन्ति । तदेव दर्शयति- 'ता जया णं' इत्यादि । 'ता' तावत् 'जया णं' यदा खलु 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे ' दाहिणड्ढे' दक्षिणार्धे "अट्टारसमृहुत्ताणंतरे' अष्टादशमुहूर्त्तानन्तरः
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy