SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा० ४ सू०१ प्रकाशस्य संस्थाननिरूपणम् १५१ साओ' प्रज्ञप्ताः 'तं जहा' तद्यथा ता यथा-'तत्थ' तत्र षोडशसु प्रतिपत्तिवादिषु 'एगे' एके केचन प्रथमा ‘एवं' एवं वक्ष्यमाणप्रकारेण 'आईसु' आहुः कथयन्ति-'ता' तावत् 'समचउरंससंठिया' समचतुरस्रसंस्थिता समाः चतस्रः अम्रयः भागा यस्याः सा तथा समचतुर्भागवती 'चंदिमसरियसंठिई' चन्द्रसूर्यसंस्थितिः चन्द्रसूर्यविमानानां संस्थानरूपा 'पण्णत्ता' प्रज्ञप्ता । उपसंहारमाह-'एगे एवमहिंसु' एके प्रथमास्तीर्थान्तरीया एवं पूर्वोक्तप्रकारेण आहुः कथयन्ति ।१। इदमुपसंहारवाक्यमने सर्वत्र वाच्यम् । 'एगे पुण' एके द्वितीयाः पुनः 'एवमासु' एबमाहुः 'ता' तावत् 'विसमचउरंससंठिया' विषमचतुरस्रसंस्थिता विषमचतुर्भागवती चंदिमसू रियसंठिई' चन्द्रसूर्यसंस्थितिः प्रज्ञप्ता 'एगे एवमाइंसु' एके एवमाहुः ।२। ‘एवं एएणं कमेणं' एवमेतेन प्रतिपत्तिद्वयप्रदर्शितेन क्रमेण आलापककमेणाने सर्वत्र योजना कर्त्तव्या । तृतीया एवमाहु-समचउक्कोणसंठिया' समचतुष्कोणसंस्थिता ३। इति । चतुर्थाः-'विसमचउक्कोणसंठिया' विषमचतुष्कोणसंस्थिता-विषमतया चतुष्कोणसंस्थानवतीति ४ पञ्चमा:-'समचक्कवालसंठिया' समचक्रवालसंस्थितेति ५। षष्ठाः-'विसमचक्कवालसंठिया' विषमचक्रवालसंस्थितेति ६। सप्तमाः-'चक्कद्धचक्कवालसंठिया' चक्रार्धचक्रवालसंस्थिता, चक्रं रथचक्रं, तस्य यदर्ध चक्रवालं तत्सदृशसंस्थानवतीति ७। अष्टमाः-'छत्तागारसंठिया' छत्राकारसंस्थितेति ८। नवमाः-'गेहसंठिया' गेहसंस्थिता-वास्तुविद्ययोपनिबद्धस्य गृहस्येव संस्थितं संस्थान यस्याः सा तथा, तादृशीति ९। दशमाः-'गेहावणसंठिया' गेहापणसंस्थिता-गृह युक्त आपणः गेहापणः वास्तुविद्या प्रसिद्धः, तत्सदृशसंस्थानवतीति-१०। एकादशाः-'पासायसंठिया' प्रासाद संस्थिता “प्रासादो धनिनां गृहम्" तत्सदृशसंस्थानवती ११। द्वादशाः-'गोपुरसंठिया' गोपुरसंस्थिता गोपुरं-पुरद्वारं, तत्सदृशसंस्थानवती १२॥ त्रयोदशाः-'पेच्छाघरसंठिया' प्रेक्षागृहसंस्थिता-प्रेक्षागृहं वास्तुशास्त्रप्रसिद्ध नाटकादिगृहं तत्सदृशसंस्थानवती १३। चतुर्दशाः-'वलमीसंठिया' वलभीसंस्थिता-वलभीगृहाच्छादनार्थ दीयमानं दीर्घलम्बं काष्ठं, तद्वत्संस्थानं यस्या सा ताहशीति १४। पश्चदशाः-'हम्मियतलसंठिया' हयंतलसंस्थिता-हयं-राजगृहं तस्य तलं, तत्सदृशमिति वदन्ति १५। 'एगे पुण' एके षोडशाः-पुनः ‘एवं' एवं वक्ष्यमाणप्रकारेण 'आहंमु' आहुः कथयन्ति-'ता' तावत् 'वालग्गपोइया संठिया' वालाग्रपोतिकासंस्थिता तत्र 'वालाग्रपोतिका' देशीशब्दोयं आकाशतडागमध्ये व्यवस्थितक्रीडास्थानवाचकः लघुप्रासाद इत्यर्थः, तद्वत् संस्थितं संस्थानं यस्याः सा तथा तत्सदृशसंस्थानयुक्ता 'चंदिमसरियसंठिई' चन्द्रसूर्यसंस्थितिः ‘पण्णत्ता' प्रज्ञप्ता, 'एगे' एके षोडशाः 'एवं' एवं-पूर्वोक्तप्रकारेण 'आइंसु' आहुः कथयन्तीति १६। प्रदर्शिताः परमतवादिनां षोडश प्रतिपत्तयः अथ भगवान् एतासु-प्रतिपत्तिषु या समीचीना प्रतिपत्तिस्तां प्रदर्शयन्नाह-'तत्थ' इत्यादि ।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy