SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ - चन्द्रनप्तिप्रकाशिकाटीका प्रा०३ सू०१ चन्द्रसूर्ययोः प्रकाशक्षेत्रनिरूपणम् १४५ विवियते । विशेषस्तु' खल्वेतावानेव, तथाहि-द्वितीयाः प्रतिपत्तिवादिनश्चन्द्रसूर्ययोरवभासनादिविषये त्रीन् , द्वीपान् त्रीन् समुद्रान कथयन्ति ।। तृतीया अर्द्धचतुर्थान् सार्धान् त्रीन् द्वीपान् सार्द्धान् त्रीन् समुद्रान् ३, चतुर्थाः सप्तद्वीपान् सप्तसमुद्रान् ४, पश्चमाः दश द्वीपान् दशसमुद्रान् ५ षष्ठाः द्वादशदीपान् द्वादशसमुद्रान् ६, सप्तमा द्विचत्वारिंशतं द्वीपान् द्विचत्वारिंशतं समुद्रान् ७, स्पष्टमा द्विसप्ततिं द्वीपान् द्विसप्ततिं समुद्रान् , नवमा द्विचत्वारिंशदधिकशतसंख्यकान् द्वीपान् द्विचत्वारिंशदधिकशतसंख्यकान् समुद्रान् ९, दशमाः द्विसप्तत्यधिकशतसंख्यकान् द्वीपान् द्विसप्तत्यधिक शतसंख्यकान् समुद्रान् १०, एकादशा द्विचत्वारिंशदधिकसहस्रसंख्यकान् द्वीपान् द्विचत्वारिंशदधिकसहस्रसंख्यकान् समुद्रान् ११ द्वादशाः द्विसप्तत्यधिकसहस्रसंख्यकान द्वीपान् द्विसप्तत्यधिकसहस्रसंख्यकांश्च समुद्रान् चन्द्रसूर्यौ अवभासयतः, उद्योतयतः, तापयतः प्रकाशयत इति कथयन्ति । इति द्वादशप्रतिपत्तिस्वरूपम् । साथ भगवान स्वमतं प्रदर्शयति-'वयं पुण' इत्यादि । 'वयं पुण' वयं तु अत्र पुनः शब्दस्त्वर्थ एवं' एवं वक्ष्यमाणप्रकारेण 'वयामो' वदामः-कथयामः 'अयण्णं' अयं लोकप्रसिद्धः स्खल 'जम्बूद्दीवे दीवे' 'जम्बूद्वीपो द्वीपः मध्यमम्बूद्वीपः 'सव्वदीवसमुदाण' सर्वद्वीपसमुद्राणां मध्यस्थितः सर्वलघुः 'जाव' यावत् 'परिक्खेवेणं' परिक्षेपेण परिधिनां 'पण्णत्ते' प्रज्ञप्तः । अस्य वर्णनमादौ प्रदर्शितम् । ‘से णं' स खलु जम्बूद्वीपो द्वीपः 'एगाए जगईए' एकया जगत्या 'सवओ समंता' सर्वतः समन्तात् 'संपरिक्खित्ते' संपरिक्षिप्तः परिवेष्टितो वर्तते । 'सा णं जगई' सा स्खलु जगती 'तहेव जहा जंबृद्दीवपन्नत्तीए' तथैवास्ति यथा येन प्रकारेण जम्बूद्वीपप्रज्ञप्त्यां कथितम् । कियत्पर्यन्तं कथनीयमित्याह-'जाव' यावत् 'एवामेक सव्वावरेणं' एवमेव सपूर्वापरेण पूर्वापरसहितेन । 'जंबूद्दीवे दीवे' जम्बूदीपे द्वीपे 'चोइस सलिलासय सहस्सा' चतुर्दशसलिलाशतसहस्राणि सलिलानां चतुर्दशलक्षाणि, 'छप्पन्नं च सलिलासहस्सा' षट् पश्चाशच्च सरित्सहस्राणि षट् पञ्चाशत्सहस्राणि सलिलानां सरितां नदीनामित्यर्थः (१४५६०००) 'भवंति' भवन्ति-सन्ति 'इति मक्खाया' इत्याख्यातं भगवतेति । विशेषजिज्ञासुभिर्जम्बूद्वीपप्रज्ञप्तिसूत्रमेव द्रष्टव्यमिति । 'जंबूद्दीवे णं दीवे' जम्बूद्वीपः स्वल द्वीपोऽसौ 'पंच चक्कभागसंठिए' पश्चचक्रभागसंस्थितः पञ्चभिः चक्रभागैः चक्रवालभागैः संस्थितः पञ्चचक्रवालसंस्थानसंस्थित ह यथः । 'आहिते' माझ्यातो मया 'ति वएज्जा' इति वदेत् स्वशिष्येभ्य इति । एवं भगवता प्रोक्ते गौतमः पुनः पृच्छति-'ता कह' इत्यादि । 'ता' तावत् 'कह' कथं केन कारणेन हे भगवन् ! भवता 'जंबूहीवे दीवे' जम्बूद्वीपो द्वीपः 'पंच चक्कभागसंठिए आहिए' पञ्च
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy