SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिकाटीका प्रा०२-२ सू०१ सूर्यस्य मण्डलात् मण्डलान्तरसंचरणम् १०९ छाया-तावत् कथं ते मण्डलात् मण्डलं संक्रामन् सूर्यः चारं चरति आख्यात इति वदेत् तत्र खलु इमे द्वे प्रतिपत्ती प्रज्ञप्ते, तद्यथा-तत्रैके पवमाहुः-तावत् मण्डलात् मण्डलं संक्रामन् सूर्यः मेदधातेन संक्रामति, एके एवमाहुः ।।। एके पुनः एवमाहुः तावत् मण्डलात् मण्डलं संक्रामन् सूर्य कर्णकलां निर्वेष्टयति, एके एवमाहुः ।। तत्र स्खलु ये ते एवमाहुः-ताबत् मण्डलात् मण्डलं संक्रामन् सूर्यः भेदघातेन संक्रामति तेषां खलु अयं दोषः-तावत् येनान्तरेण मण्डलात् मण्डलं संक्रामन् सूर्यः भेद्घातेन संक्रामति. पतावती च खलु अद्धां पुरतः न गच्छति, पुरतः अगच्छन् मण्डलकालं परिभवति, तेषां खलु अयं दोषः ।। तत्र खलु ये ते पवमाहुः-तावत् मण्डलात् मण्डलं संक्रामन् सूर्यः कर्ण कलां निर्वेष्टयति, तेषां खलु अयं विशेषः तावत् येनान्तरेण मण्डलात् मण्डलं संक्रामन् सूर्यः कर्णकलां निर्वेष्टयति, पतावती च खलु अद्धां पुरतो गच्छति, पुरतः गच्छन् मण्डल कालं न परिभवति, तेषां खलु अयं विशेषः ।२। तत्र ये ते एवमाहुः-मण्डलात् मण्डलं संक्रामन् सूर्यः कर्णकलां निर्वेष्यति, एतेन नयेन ज्ञातव्यम् नो चैव खलु इतरेण ॥२०॥ ॥द्वितीस्य प्राभृतस्य द्वितीयं प्राभृतप्राभृतं समाप्तम् ॥२-२॥ . व्याख्या-'ता' तावत् 'कह' कथं केन प्रकारेण हे भगवान् ? 'ते' ते तव भवन्मते 'मंडलाओ मंडलं' मण्डलात् एकस्मात् मण्डलात् 'मंडलं' अपरं मण्डलं 'संकममाणे' संक्रामन् 'सुरिए' सूर्यः 'चारं चरइ' चारं चरति परिभ्रमति केन प्रकारेण सूर्यश्चारं चरन् 'आहितेति वदेज्जा' आख्यातः कथितः इति वदेत् कथयतु हे भगवन् ? अत्र हि सूर्यस्य एकस्मान्मण्डलादन्यस्मिन् मण्डले संक्रमणमेव वक्तव्यमस्ति, अतस्तदेव प्रधानं कृत्वा वाक्यस्य भावार्थभावना कर्तव्या । भगवानाह -हे गौतम 'तत्थ' तत्र एवंविधसंक्रमणविषये खल 'इमे' इमे वक्ष्यमाण स्वरूपे 'दुवे' द्वे 'पडिवत्तीओ' प्रतिपत्तो परतीथिंकमान्यतारूपे 'पण्णत्ताओं' प्रज्ञप्ते कथिते 'तं जहा' तद्यथा ते द्वे प्रतिपत्ती यथा - तदेव दर्शयति-'तत्थ' तत्र मण्डलान्मण्डलसंक्रमणविषये 'एगे' एके केचन परमतवादिनः 'एवमाहंसु' एवं वक्ष्यमाणप्रकारेण आहुः-कथयन्ति । किं कथयन्तीत्याह-'ता मंडलाओ मंडलं' इत्यादि । 'ता' तावत् 'मंडलाओ मंडलं' मण्डलात् यत्रस्थितस्तस्मात् मण्डलात् मण्डलम्-अग्रेतनमपरमण्डलाभिमुखं 'संकममाणे' संक्रामन् गतिं कुर्वन् 'सरिए' सूर्यः 'भेयघाएणं' भेदघातेन, तत्र भेदः प्रतिमण्डलस्यापान्तरालभागः, तत्र घातः गमनं तेन मण्डलस्य नाम मण्डलाऽपान्तरालगमनपूर्वकमित्यर्थः ‘संकामइ' संक्रामति स्वचारगत्या गच्छति, विवक्षितं मण्डलं पूरयित्वा तदनन्तरमपान्तरालगमनेनापरं द्वितीयं मण्डल संक्रम्य च तत्र मण्डले चारं चरति, उपसंहारमाह-'एगे' एके पूर्वोक्ताः प्रथमास्तीर्थान्तरीयाः ‘एवं' पूर्वप्रदर्शितप्रकारेण आहुः कथयन्तीति प्रथमा प्रतिपत्तिः ।१। अथ द्वितीयां दर्शयति-'एगे पुण' एके द्वितीयाः पुनः 'एवमाहंसु' एवं वक्ष्यमाणप्रकारेण आहुः कथयन्ति, तदेवाह-'ता' तावत् 'मंडलाओ मंडलं संकममाणे सूरिए' मण्डलान्मण्डलं संक्रामन्-संक्रमितुमिच्छन् सूर्यः यत्र गन्तुमिच्छति
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy