SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिकाटोका प्रा०१-८ सू०१५ द्वितीयषण्मासे सूर्यपरिभ्रमणम् ९३ योजनानि परिरयवृद्धिं निर्वर्धयन् २ सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति । तावद् यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु तानि मण्डलपदानि अष्टचत्वारिंशद् एकषष्टिभागा योजनस्य बाहल्येन, नवनवतियोजनसहस्राणि षट् चत्वारिंशद् योजनशतानि आयामविष्कम्भेण, त्रीणि योजनशतसहस्राणि पञ्चदश च सहस्राणि एकोननवतिश्च योजनानि किञ्चिद्विशेषाधिकानि परिक्षेपेण । तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षक: अष्टादशमुहतों दिवसो भवति, जघन्यिका द्वादशमुहूर्ता रात्रिर्भवति एतत् खलु द्वितीयं षण्मासम् । एतत् खलु द्वितीयस्य षण्मासस्य पवर्यसानम् । एष खलु आदित्यः संवत्सरः। एतत् खलु आदित्यस्य संवत्सरस्य पर्यवसानम् ।।स० १५॥ व्याख्या-ततः ‘से पविसमाणे सूरिए' स प्रविशन् सर्वाभ्यन्तरमण्डलाभिमुखं गच्छन् 'दोच्चं छम्मासं' द्वितीयं षण्मासम् दिवसवृद्धिरूपम् 'अयमाणे' अयन् प्राप्नुवन् 'पढमंसि अहो. रत्तसि' प्रथमे अहोरात्रे 'बाहिराणंतरं मंडलं' सर्वबाह्यानन्तरमभ्यन्तरमार्गगतद्वितीयं मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चार चरति । 'ता' तावत् 'जया णं' यदा खलु 'मूरिए' सूर्यः ‘बाहिराणंतरं मंडलं' बाह्यानन्तरं मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति तया णं तदा खलु ‘सा मंडलवया' तानि मण्डपदानि 'अडयालीसं एगसद्रिभागा जोयणस्स' अष्टचत्वारिंशदेकषष्टिभागाः योजनस्य बाहल्येन वर्तन्ते, 'एगं जोयणसयसहस्सं' एक योजनशतसहस्रं 'छच्च चउप्पण्णे जोयणसयाई' : षट् च चतुष्पञ्चाशद् योजनशतानि 'छब्बीसंच एगसहिभागा जोयणस्स' पविंशतिश्च एकषष्टिभागा योजनस्य चतुष्पञ्चाशदधिकषट्शतोत्तरैकलक्षयोजनानि योजनस्य षविंशत्येकषष्ठिभागसहितानि (१००६५४-२६ 'आयामविक्खंभेणं' आयामविष्कम्भेण वर्तन्ते । कथमेतत्परिमाणमुपलभ्यते ? इति विशदी क्रियते, तथाहि-मण्डलमेतत् एकतो द्वे योजने सर्वबाह्यमण्डलगतानष्टचत्वारिंशतमेकषष्टिः भागांश्च (२-१८) योजनस्य मुक्त्वाऽभ्यन्तरमवस्थितम् , 'अपरतोऽपि द्वे योजने सर्वबाह्य ६१ मण्डलगतानष्टचत्वारिंशतमेकपष्टिभागांश्च (२-४८) योजनस्य मुक्त्वाऽभ्यन्तरमवस्थितमिति तयोर्द्वयोः सम्मेलने जातानि पञ्चयोजनानि पंचत्रिंशच्चैकषष्टिभागा योजनस्य (५-३५) त्ति' एतत् सर्वबाद्यमण्डलगतायामविष्कम्भपरिमाणात् (१००६६०) शोध्यते ततो जातं यथोक्तं चतुष्पञ्चाशदधिकषट्शतोत्तरैकलक्षयोजनानि पविंशतिश्चैकषष्टिभागाः (१००६५४-आयामविष्कम्भपरिमाणमिति । तथा 'तिण्णि जोयणसयसहस्साइ' त्रीणि योजनशतसहस्राणि 'अदारस द
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy