SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली दृष्टम्, परं क्व गतं कूपे वा गर्ने वा तत्तु त्वया मयापि च नैव दृष्टम् । अतोऽन्यद् गृहीत्वा सर्वैः पुरेव क्रीडितव्यम् । इत्यर्थिकामेनाङ्गाथामाकर्ण्य सम्यगभ्यस्तवान् यवमुनिः । इत्थं गाथाद्वयं तेन शिक्षितम् । इतो वसन्तपुरे नगरे यवाख्ये राजनि दीक्षिते सति तत्पुत्रो गर्दभीलो राजाऽभूत् । तत्पुत्री चाऽनुलिका तारुण्यपूर्णा जाता । तां महारूपवती युवतीमालोक्य दीर्घपृष्ठनामा मन्त्री तस्यामनुरागवान् बभूव । ततो मन्त्री युक्त्या तामपहृत्य निजसद्मनि समानीय गुप्तस्थाने स्थापितवान् । गर्दभीलो राजा निजभगिनीमपहृताम्परितो बहुशः शोधयामास, परं कुत्रापि केनापि तस्याः शुद्धिर्नाधिगता | ततस्तस्य राज्ञो मानसे महती चिन्ता समुदपद्यत । इतश्च स यवराजर्षिः पुरप्रवेशं विधाय कस्यचित् कुम्भकारस्य गृहे समागत्य तस्थौ । स च कुम्भकारो नवीनानि मृन्मयानि भाण्डानि निर्मायैकत्र गृहकोणे सञ्चितान्यकरोत् । तन्मध्ये कस्यचिन्मूषकस्य सञ्चारमालोक्य मूषकप्रतिबोधाय स प्रजापतिरेनाङ्गाथामपाठीत् । यथासुकुमालग ! भद्दलग !, रतिं हिंडणसीलग !। भयं ते णत्थि मंमूला, दीहपुट्ठाउ ते भयं ॥३॥ अयमस्या अर्थ:- हे मूषक ! त्वमतीव सुकुमारोऽसि, तथा सरलोऽसि, त्वं रात्रौ सञ्चरणशीलोऽसि, तव मत्तो भीतिः कापि नास्ति, किन्तु दीर्घपृष्ठात्सर्यादीतिरस्तीति गाथार्थः । एनामपि गाथां श्रुत्वा तत्क्षणं यवसाधुः शिशिक्षे । अथाऽभ्यासदाया॑य गाथात्रयमेतद्वारम्वारमभ्यसन्स मुनि 39
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy