SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली तथा शशिकलेव सर्वतः प्रकाशयन्ती, परिधानवसनं किञ्चिदुच्चैः कृत्वा वारिप्रविष्टा घटं वारिमध्ये यदैव पातयामास तत्रावसरे तस्याः शिरसो वसनं वायुना किञ्चिच्चालितम् । तत्र समये तदीयकुटिला अतिश्यमलाः स्निग्धा लम्बायमानाः कचवरा अंसयोः पतिता नितरामशोभन्त । तथा तडिद्गौरवर्णायास्तस्या अत्युन्नतौ चारू पीवरौ सुकठिनौ पयोधरौ कनकलतायामुदिते सुफले इव शोभते । तदा जलमध्ये तदूरुयुगं कदलीस्तम्भयुगमिव शुशुभे । अथ तामवलोक्य किमियं काचन नागकन्या मां वरितुमिहाऽऽयातेत्यादि नानामनोरथान् कुर्वन् कश्चिन्नागराजो दिव्यमूर्तिधरो जलमध्यादाविर्भूय स्मरशरातिपीडितो विद्युतमिव तस्या मुखारविन्दमवलोक्य नयननिमीलनं कुर्वन् कथमपिसाहसमाधाय नेत्रयुगचोन्मील्य सादरं तां पश्यन् किञ्चित्तस्थौ । तत्रावसरे सायन्तनं कुसुमसौरभो मन्दपवनो ववौ । तेनाऽतीव प्रवृद्धमदनः सोऽभवत् । ततस्तां सुंदरी तत्क्षणमेव शीलभ्रष्टां स हठादकरोत् । हा! हा ! धिक् कामम्! यदर्दितो ज्ञानवानपिमुह्यति। नैसर्गिकं विवेकंत्यजति। अनिच्छन्तीमपि बलादुपभुज्य तामेवमवक - हे सुभु ! रोष मा कार्षीः । शोकञ्च त्यज, तव महापराक्रमी यशस्वी राज्यभोक्ता बलीयान पुत्रो भविष्यति । किञ्च यदा यदा ते काप्यापदागच्छेत्तदा तदा त्वयाऽहं स्मरणीयः | ततोऽहं तवाऽऽपदं संहरिष्यामि । इत्यादि मिष्टैर्वाक्यैस्तां परिभाष्य स नागदेवः स्वस्थानमीयिवान् । साऽपि विधवा शोकाकुला जलमादाय स्वस्थाने समागता । तत्स्वरूपं विदित्वा तद्भातरावुभावपि तां तत्रैव परित्यज्य निजदेश 31
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy