SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली मपुषत् । एकदा नदीतीरे शिलोपरिसक्तून् पयसा(वारिणा) पिण्डीकुर्वता कोऽपि मासोपवासी क्षमाश्रमणः पारणार्थं गोचर्य समागच्छंस्त्वयाऽऽलोकितः । तत्रावसरे श्रद्धया तमाहूय मुदा तत्सक्तुपिण्डं तस्मै दत्तवान् । तत्सुपात्रदानप्रभावत इह जन्मनि राज्यमीदृशं त्वया लब्धम् । स एव त्वमिह जन्मनि राज्यसौख्यमनुभवसि । स मुनिर्मृत्वा देवोऽजनिष्ट। पूर्वजन्मनि महारङ्कमिह जन्मनि राज्यसुखशालिनं च त्वामवगत्य प्रेम्णा मीनशरीरं प्रविश्य स एव देवो जहास । अत एतद्विषये त्वया किमपि न शोचनीयम् । ___इत्याकर्ण्य सञ्जातपूर्वभवजातिस्मृतिः स शालिवाहनो नृपः साधूक्तं सर्वं तथैव मेने । ततस्तस्य राज्ञो जैनधर्मे महती श्रद्धा समुत्पन्ना। ततःप्रभृति दानधर्मादिविषये राज्ञो मनो विशेषतः सल्लग्नम्। धर्मकृत्ये सदैव तत्परोऽभवत् । अस्मिन् भारते तन्नाम्ना प्रवर्तितो वत्सरोऽद्यापि पञ्चाङ्गे ज्योतिर्विद्भिर्विलिख्यत एव । किञ्च विक्रमार्कनृपतिना सह यथास्य सङ्ग्रामोऽभूत्तथाऽधस्तनप्रदर्शितलेखतो बोध्यः। तथाहि-प्रतिष्ठानपुरे नगरे कस्यचित् कुम्भकारस्य गृहे त्रयो यात्रार्थिनः समागताः । तत्र द्वौ भ्रातरौ तदीयाऽचिरकालिकी विधवा भगिन्यासीत् । सा च निजश्रियाऽप्सरसोऽप्यधिका, पश्यतां यूनां धैर्यलोपनविधायिनी, महारूपलावण्यशालिनी, किमधिकेन ब्रह्माण्डोदरमध्यवर्तिकामिनीनामखिलानां सा हि प्रशस्यतमाऽऽसीत् । सा चैकदा सन्ध्यासमये गोदावर्यां जलाहरणाय नागहूदं गता | तत्राऽवसरे सैकाकिनी स्वप्सरायमाणा वैधव्यदोषेण मनोहरकौशेयाऽऽभरणादिहीनापि नैसर्गिकाऽनुपमतनुश्रियैव नितरांशोभमाना 30
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy