SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ सिद्धाचलतीर्थं जैनेभ्यः पवित्रतमं तीर्थमस्ति । प्रतिबन्धकानां सद्बुद्धिप्रदानाय यावच्चातुर्मासं शश्वदाचम्लतपो-नमस्कारजापगङ्गा प्रवाहिता। संवत् १९९० वर्षे राजनगरे मुनिसम्मेलनमभवद् यत् त्रयस्त्रिंशद् दिवसपर्यन्तमजनमचलत् । तस्मिन् नवाचार्यसमितिः स्थापिता । तस्मिन् त्रिस्तुतिकसङ्घमुख्यो भूपेन्द्रसूरिरप्येक आसीत् । सम्मेलनेऽनेकसमस्यासु विचारणा जाता। भूपेन्द्रसूरिणापि सुन्दरं स्वयोगदानं दत्तम् । शान्तमूर्तिभूपेन्द्रसूरेः सर्वेऽत्यन्तप्रसन्ना अभूवन् । जन्या सह मृतिनिश्चिता। तीर्थकृच्चक्रवर्तीन्द्रा अपि मृत्योरनपवादाः। कालः कं कदा कथं कवलितं करिष्यति किं कोऽपि कलयेत् । आचार्यवर्योऽपि संवत् १९९३ वर्षे माघशुक्लसप्तमीदिने आहोरनगरे स्वाश्रितान् मुक्त्वा स्वर्गङ्गतः । जैनसङ्घायापूर्णा क्षतिर्जाता । प्रवराचार्यः प्रतिजनानां श्रद्धायाः केन्द्रीभूत आसीत् । शान्तमूर्तिकारणात् सर्वास्वानिते उषितः । गुरुवर्यस्वर्गमनसमाचारप्राप्त्या सर्वे शोकपारावारे ब्रुडिताः । आजीवनं स्वपरोपकृतौ निरतः सन् स्वसाध्यं साधयित्वा सुगतिभाग् भूतः। आचार्यभगवान् महान् साहित्यकार एवं संस्कृतविदासीत् । अतो विद्वद्भिः ‘साहित्यविशारद' उपाध्यालङ्कृतः । संस्कृतगिरायां चन्द्रराजचरित्रदृष्टान्तशतक-सूक्तमुक्तावली-स्तुतिचैत्यवन्दन-स्तवनादि-विविध साहित्यं रचितम्। संवत् १९७३ वर्षे मन्दसौरनगर एतज्ज्ञानात् प्रभावितविद्वत्पण्डितैः 'विद्याभूषणं' इत्युपाध्यापि विभूषितः । एतावदाचार्यभगवच्चरणयोः कोटिशो वन्दना। -मुनि-तत्त्वानन्द-विजयः मुक्तिविहार (आहोर) प्रतिष्ठादिने संवत् २०७१ वैशाखशुक्ला नवमी 1. निरन्तर । 2. निरन्तर । 3. जन्म । 4. हृदय । 5. समुद्र ।
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy