SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ १९६३ वर्षे पोषशुक्लसप्तमीदिने गुरुदेवो दिवङ्गतः । द्वौ सुशिष्यौ मिलित्वा राजेन्द्रकोषस्य सुषमं सम्पादनमकुर्वातां यस्य फलमद्यापि विश्वविश्वमास्वादते। संवत् १९८० वर्षे ज्येष्ठ शुक्लाष्टमीशुभदिने जावरानगर आचार्यपदेन विभूषितः । तन्नाम परिवर्त्य "आचार्य-श्रीमद्-विजय-भूपेन्द्र-सूरिः" इति घोषितम् । समस्तत्रिस्तुतिकसो हर्ष-लहरी प्रसृता । गुरुदेवेन देवीचन्द्रं दृष्ट्वा या भविष्यवाणी कृता सा सत्या जाता। पूज्यपुरुषवचनानि ब्रह्मास्त्राणीवामोघानि भवन्ति । अत ऐहिकामुष्मिकफलार्थिभिः प्रयत्नपूर्वकं प्रसाद्या गुरवः । सुधर्मस्वामिपट्टासीनो भूत्वा गुणान् पराकाष्ठामनयत् । नैकानि शासनप्रभावनाकार्याणि कृतानि । उपधान-सङ्घ–प्रतिष्ठा-दीक्षा-बृहद्दीक्षादिविविधशासनकार्याणि कृत्वानेकात्मोन्नत्तिसहायको बभूव । ग्रामं ग्राम धार्मिकपाठशालाः प्रारम्भिताः । अनेकसङ्घभेदं भित्त्वैकता कारिता । एतद्वाणीप्रभावितबहुजैनेतरा अपि क्रव्य-कादम्बरी-खेटकादिव्यसनत्यागमकुर्वन्त । बागराचातुर्मासि करेणुविनाशं ज्ञापयित्वा स्त्रीषु स्तम्बरदन्तनिर्मितवलय-धारण-कुप्रथा त्याजिता । इत्थं ग्राम-नगरेषु शासनप्रभावनां कुर्वदाचार्यस्य यशो दिशोदिशं व्याप्तम् । __ संवत् १९८३ वत्सरे थिरपुर (थराद)-चातुर्मासे 'आनन्दजीकल्याणजी पेढी' द्वारा प्रेषितं पत्रं प्राप्तं, यस्मिन् लिखितम्- "राजकोटएजन्टेन शत्रुञ्जयतीर्थयात्रा प्रतिबन्धिता।" समाचार-प्राप्त्यनन्तरं कृत्स्नथिरपुरपुरे शोको व्याप्तः । पूज्याचार्यभगवता तन्निर्णयस्य तीव्रालोचना कृता। 1. सुन्दर । 2. संपूर्ण । 3. मांस । 4. मदिरा । 5. शिकार । 6. हाथी । 7. हाथी। 8. कंकण । 9. संपूर्ण ।
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy