SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली स्वस्थानमाययतुः । पुनरन्यौ द्वौ साधू देवकीनिलयमागतौ तौ । विलोक्य देवकी मनसि दध्यौ- इमौ पुनरागतौ स्तः । अतोऽधिकम्भोज्यमपेक्ष्यते । इत्यवधार्य सा ताभ्यां प्रचुरांस्तान मोदकान् प्रत्यलाभयत् । तयोर्गतयोः पुनस्तृतीयसंघाटकीयौ द्वौ मुनी समागतौ वीक्ष्य तया चिन्तितम्- अहो ! साधवो ह्यधिकाऽऽहारापेक्षणे कदाचिद् द्वितीयवारमागच्छन्ति । तृतीयवारं तु कदापि नागच्छन्ति । एतौ कथं मुहुर्मुहुराजग्मतुः ? पुरीयं महती वर्तते । श्रावका अपि बहवो विद्यन्ते । इत्थं वितर्कयन्ती सा यावत्तयोरभिमुखं तस्थौ । तावत् ताभ्यामवादि- अयि महाभाग्ये ! त्वं किं शोचसि ? तयोक्तम्- हे मुनी ! युवां संसारमसारं मत्वा प्रभोः पार्थे दीक्षितोवेकत्रैव गृहे तृतीयवारं कथमागतौ?। एतेनैव मम मनसि विचारणा जातास्ति । तौ जगदतुरस्माकं संघाटकत्रयं वर्तते । अतो वयं पृथक् पृथक् समागताः स्मः । त्वया मनागपि न सन्दिग्धव्यम् । इति श्रुत्वा पुत्रवत्स्नेहस्तस्यास्तदुपरि प्रादुरासीत् । स्तनयोः क्षीरमागतम् । ततः सहर्ष सा तावपि मुनी तानेव मोदकान् प्रत्यलाभयत् । ___ अथ गतयोस्तयोः साध्वोः सा तदैव मनोगतसंशयं निराकर्तुमर्थात् कथं तेषु षट्सु साधुषु पुत्रप्रेमोद्रेकोऽभूदिति प्रभोः पार्थमागत्य वन्दनादि विधाय प्रभुमपृच्छत् । भगवानवोचत्-तव षटुपुत्रान् कंसात् त्रस्तान् देवता सुलसाया गृहे नीतवती । त एवाऽमी षड्मुनयः सन्ति । तच्छ्रुत्वा गृहागता साऽऽर्तध्यानार्ताऽभवत् । यथा मम षट्पुत्रा जाताः, ते च सुलसागृहे पालिता अभूवन । सप्तमोऽयं कृष्णो नन्दगृहे 112 -
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy