SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली २३-क्षमागुणविषये गजसुकुमालमुनेः कथानकम्वसुदेवस्य देवक्याः कुक्षेरुत्पन्नान् षट्पुत्रान् कंसो जघान, इति तौदम्पती विविदतुः, परं देवता तांश्चरमशरीरान पूर्वार्जितपुण्ययोगात् सुलसाया गृहे निनाय । ते च तया पालिता वृद्धिमापुः । तया च निजपुत्रधिया यौवने वयसि ते परिणायिताः । ताभिः सुन्दराङ्गनाभिः सह विषयसुखमनुभवन्तस्ते सुखेन दिनानि निन्युः । अथैकदा भगवान् नेमिनाथस्तत्रोद्याने समवससार | देवैः समवसरणमकारि । तत्र द्वादशविधपर्षदग्रे प्रभुर्देशनां प्रारब्धवान् । तामाकर्ण्य ते देवक्याः षट्पुत्राः प्रबुद्धाः संसारमसारं मन्वानाः स्त्र्यादिविषयसुखं त्यक्त्वा सुलसामापृछ्य सर्वे युगपदेव प्रभोः पार्थे चारित्रं जगृहुः । भगवता सह ग्रामानुग्रामं विहरन्तस्ते एकदा द्वारिकानगरीमगुः। तेभ्यः षट्पुत्रेभ्यः पश्चादेवक्याः श्रीकृष्णः पुत्रोऽभूत् । अयञ्च कंसभीत्या गोकुले नन्दगृहे जातमात्र आनीतः प्रवृद्धिमाप । ततोऽपि जरासन्धत्रासमाप्तः समुद्रविजयादिदशदशाहयुतः कृतपलायनः श्रीकृष्णो देवनिर्मितद्वारिकापुरीमागत्य राज्यमकरोत् । प्रभुमागतमाकलय्याऽतिप्रमुदितः श्रीकृष्णश्चतुरङ्गसेनायुतः सकलपौरजनपरिवृतः प्रभुवन्दनायै तत्राऽऽगात्। विधिना प्रभोर्वन्दनां विधाय गते श्रीकृष्णे प्रभोरादेशेन तेषां षट्साधूनां सम्बधित्रिकसंघाटकाद् द्वौ द्वावेकदा नगरं गोचर्य समागाताम् । तौ देवकीसद्मनि समागत्य सिंहकेसरिमोदकान् लात्वा -111
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy