SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्री स्तोत्रचिंतामणिः स्वर्ण प्रदक्षिणावर्त, संघभद्रानुगाश्च ते ॥ चतुर्विधसंघभद्रा, नुकूलाः सूरयो मताः ॥१३३॥ नाग्निना दह्यते स्वर्ण, विकटापत्तिवहिना ॥ दह्यन्ते सूरयो नातोऽ, दाह्यास्तेऽत्र प्रभाषिताः ॥१३४॥ निंदापात्रं न च स्वर्ण, अनिंद्याः सूरयस्तथा ॥ स्वर्ण धातु गुरु प्रोक्तं, मूरयो गुरवस्तथा ॥१३५॥ एवमष्टगुणप्राप्ताः, पीताः श्रीमूरयो मताः॥ ध्येयास्तत्पीतवर्णेन, सूरयो धर्मनायकाः ॥१३६ ॥ मेघवृक्षोपमानेन, शिष्यान्पाषाणसंनिभान् ॥ दत्वा पल्लवितान्बोधं, कुर्वति वाचका अमी ॥१३७॥ तदादिकारणेभ्यस्ते, पाठका नीलवर्णतः ॥ ध्येयाश्चित्तस्थिरत्वेन, सिद्धचक्रस्य साधकैः ॥१३८॥ श्याम स्याद्भानुतापेन, यथा वस्तु तथा मताः ॥ तपसो श्रमणाः श्यामाः, तद्धयानं श्यामवर्गतः॥१३९॥ श्वेता गुणस्वरूपेण, अंतिमा दर्शनादयः ॥ तद्धयानं श्वेतवर्णन, तस्मात्कार्य विवेकिभिः॥१४०॥ कारणान्तरमीमांसा, वर्ततेऽत्राप्यनेकधा ॥ वर्णानां वर्णनं प्रोक्तं, तेभ्यः संगृह्य देशतः ॥१४१॥ आसन्नमुक्तिभव्यानां, सदैव विधिभावना ॥ अभव्यादिकजीवानां, विपित्यागोऽविधौरतिः॥१४२॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy