SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ २८ श्री विजयपद्मसूरिविरचितः याहि शंखेश्वरेशान-पार्श्वपार्श्व स एव ते । सर्वाङ्गीणगदान् सर्वान्, अपनेष्यति सत्वरम् ॥ २० ॥ श्रुत्वेति देववाणी नो, वितथा कर्हिचिद्भवे । दित्यालोच्य समागत्य, प्रचक्रे वर्यसाधनाम् ॥ २१ ॥ प्रभावादर्हतः सोऽभूत्, निर्गदो हर्षवानपि । कदापि निश्चला श्रद्धा, निष्फला न भवेद्यतः ॥२२॥ खेचरेन्द्रौ रविश्चन्द्रः शक्रः पद्मावती तथा । नागेन्द्राद्या मुदोपास्ति, चक्रिरेऽस्य वरे स्थले ॥ २३॥ अन्ये वितेनिरे भक्ति, ममतां निजसम्पदाम् । विहाय बहुमानेना - वञ्चका भद्रकांक्षिणः ॥ २४ ॥ तदनुकृतिमाधाय, विधेयं भव्यभाविभिः । श्रीशंखेश्वरपार्श्वस्य, स्तुतिध्यानार्चनादिकम् ॥२५॥ जीयात्स्तंभनतीर्थेश, पार्श्वनाथ जगद्विभुः । यस्तद्दत्ते न यद्दाने, समर्थो नाकिपादपः ॥ २६ ॥ ऐतिहासिकशास्त्रादौ वर्णनं यस्य वर्णितम् । यं श्रुत्वा विबुधाः सर्वे, चित्रमायान्ति चेतसि ॥२७॥ करालभवपाथोधौ, बद्धकर्म निमज्जताम् । जन्तूनां पोत संकाशं, स्तौति यस्स्तुत्य एव सः ॥२८॥ गुणिनां गुणसंगेन, निर्गुणोऽपि गुणीभवेत् । (गु) तदुत्पत्तिर्विभुस्तोत्रा - दतस्तत्कार्यमङ्गिभिः ॥ २९॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy