________________
श्रीधरचरित : माणिक्यसुन्दरसूरि
३६१ ३. अडिल्ला : तद्यमितमन्तेऽडिल्ला । भुजबलकलिताऽखिलवसुधाकर !
देशस्थितबहुमणिवसुधाकर ! दानकला दिवमिव न सुधा कर
मुज्झति तव निजवंशसुधाकर !! ५.५५ ४. पद्धटिका : चतुष्कलचतुष्कं पादान्तेऽनुप्रासे पद्धटिका ।
नात्र विषमे जः कार्योऽन्ते तु जः चतुर्लो वा ॥ जयचन्द्रधवलकीर्तिपूर ! जय चन्द्रवदन ! रुचिविजितसूर !
जय चन्द्रकलाम्बुजराजहंस ! जय विजयचन्द्र ! वीरावतंस !॥५.५७ ५. श्री : जातौ ग् श्री।
गीः श्रीः धीः स्तात् । ६.१ ६. हलमुखी : र् न स हलमुखी
पूर्वशैल इव तरणि विन्ध्यशैल इव करिणम् ।
अंकगं क्षणमथ वहन्नथ नरपतिरभात् ॥६.६ ७. सुदत्तम् : स्यो स्जो गः सुदत्तम् ।
समरे यशोबीजमिवोप्तमर्वतां, हलवत् खुरैः क्षुण्णमहीतलेऽधुना । ७.४७ ८. मृदङ्ग : त भौ जो रो मृदङ्गः ।।
आनन्दयत्वथ मनस्तव सैष मैथिल
श्चन्द्रानने ! कमलचन्द्र इति क्षितीश्वरः । ७.५२ ६. क्रौंचपदा : भ म स्ना नौ नौ गः क्रौंचपदा द्विशरैर्वसुमुनिभिश्च ।
शंकरमानन्दादिव गौरीं स्मरपरिभवकरशुचिरुचिनिकर
वीक्ष्य मरालीजैत्रगति तां विजयनृपतिमभिसरमसचलिताम् । ७.७६ १०. चण्डवृष्टि : नौ सप्त राश्चण्डवृष्टिः।।
कुलममलमिदं धरामण्डले धन्यमिक्ष्वाकुरत्नांगदक्ष्मापतेर्बन्धुरं, जगति खलु सुलोचना कन्यका सापि धन्या वृतं सुष्ठु इत्युगिरन्तो
गिरम् ॥ ७.७८ ११. चण्डकाल:
जलदरवजैत्रनिर्घोषनिर्दोषविश्वौक
सन्तोषकृच्चंगरंगन्मृदंगादिवाद्यानि नेदुस्तदा, ललितवचनबुंधा मागधास्ते सुधासन्निभं
सारमाशीर्वच: प्रोच्चरन्ते स्म विस्मेरचित्ता मुदा । ७.७६ १२. आख्यानकी : ओजे तौ जो गौ युजि ज त जा गौ आख्यानकी।
आनन्दयत्राननकरवाणि वरेण्यराजेन्दुनिरीक्षकाणाम् । निस्तन्द्रचन्द्रातपवत् प्रससिरिति क्षणस्तत्र बभूव भूयान् ।। ७.८०