SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३४२ लघुसिद्धान्तकौमुद्याम् विशेष्यलिङ्गाधिकारः ५६ शिष्टा संख्या परवत् । शिष्टा संख्या विशेष्यलिङ्गा। एकः पुरुषः, एक स्त्री । एकं कुलम् । __ ५७ गुणवचनश्च । विशेष्यलिङ्गं स्यादित्यर्थः । शुक्ल: पट: । शुक्ला पटी। शुक्लं वस्त्रम्। ५८ कृत्याश्च । कृत्यप्रत्ययान्ताश्च विशेष्यलिङ्गाः स्युः कत्तव्यो धर्मः। सतव्या सरणिः । स्मर्तव्यं ब्रह्म। ५६ करणाधिकरणयोर्म्युट च । विशेष्यलिङ्ग स्यादित्यर्थः । ६० सर्वादोनि सर्वनामानि । सर्वनामसंज्ञकानि सर्वादीनि विशेष्यलिङ्गानीत्यर्थः । सर्वे पुरुषाः । सर्वाः स्त्रियः । सर्वाणि फलानि । इति लघुलिङ्गानुशासनं सम्पूर्णम् । अथ किमिद व्याकरणम् ? व्याक्रियन्ते व्युत्पाद्यन्ते ( संसाध्यन्ते ) शब्दा अनेनेति व्याकरणम्-सूत्रवार्तिकभाज्यव्याख्यानादिस्वरूपं शब्दानुशासनं नाम शास्त्रम् । तत्र सूत्रम् अल्पाक्षरमसंदिग्धं सारवद्विश्वता मुखम् । अस्तोभमनवद्यश्च सूत्र सूत्रविदो विदुः ॥ तद्भेदाश्चसज्ञा च परिभाषा च विधिनियम एव च । अतिदेशोऽधिकारश्च षड्विधं सूत्रमुच्यते ॥ तत्र १-सज्ञासज्ञिसम्बन्धबोधकं सूत्रम् सज्ञासूत्रम् । यथा-"वृद्धिरादैच्', "प्रदेङगुणः", "शेषो ध्यसखि"। २-अव्यवस्थायां व्यवस्थाऽऽपादकं सूत्रम्=परिभाषासूत्रम्। तथा-"तस्मांदित्युत्तरस्य", "मिदचोऽन्त्यात्परः"। ३-आदेशादिविधायकं सूत्रम=विधिसूत्रम् । यथा-"इको यणचि", "ह्रस्व नद्यापो नुट्", "एरच्"। ४-प्राप्तस्य विनियामकं सूत्रम्-नियमसूत्रम् । यथा - "रास्सस्य" । ५-प्रतस्मिन् तद्धर्माऽऽपादक सूत्रम् = अतिदेशसूत्रम् । यथा - "सख्युरसम्बुद्धौं", "गोतो णित्", "लोटो लङ्वत्" । ६-उत्तरोत्तरस्वार्थसमर्पक सूत्रम्-अधिकारसूत्रम् । यथा"ज्याप्रातिपदिकात्" "प्रार्धधातुके", "पूर्वत्रासितम्"।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy