SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ (२) मारं मार रतिपतिभटं त्यक्तमोहादिदोषो___धार धारं यतिपतिपदं कृत्तकर्मादिवर्गः । वारं वारं कुपथगमनं जैनराधान्तरक्तः __ स्वर्गस्थोऽसौ विलसति सुखं मद्गुरुर्वृद्धिचन्द्रः॥ ५॥ द्वेषं द्वेषं कपटपटुकं निह्नवं न्यायमुक्तं __पेषं पेषं कुशलविकलं कर्मवारं प्रभूतम । पोषं पोषं विमलकमलं चित्तरूपं महात्मा ___ स्वर्गस्थोऽसौ विलसति सुखं मद्गुरुर्वृद्धिचन्द्रः ॥६॥ शोषं शोषं कलुषजलधिं ध्वस्तपापादिपङ्कः ____प्लोषं प्लोषं सकलमशुभं शुद्धधीध्यानममः । तोषं तोषं भविजनमनो जैनतत्त्वादिभिर्यः ___ स्वर्गस्थोऽसौ विलसति सुखं मद्गुरुर्वृद्धिचन्द्रः॥७॥ सिद्धान्तोदधिमन्थनोत्थविमलज्ञानादिरत्नब्रज शिष्येभ्यो वितरन् समाधिसहितः संप्राप नाकं शुभम्। सोऽयं मद्गुरुरन्वहं विजयतां श्रीवृद्धिचन्द्रो मुनि स्तस्यैव स्तुतिरूपमष्टकमिदं भव्याः पठन्तु प्रगे॥८॥ इति शान्तमूर्तिश्रीमवृद्धिचन्द्रचञ्चरीकायमाण धर्मविजयविरचितं स्वगुर्वष्टकम् ।
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy