SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ ॥ अर्हम् ॥ शान्तमूर्त्तिश्रीवृद्धिचन्द्रसद्गुर्वष्टकं स्तुतिरूपम् । वाचं वाचं प्रभुगुणगणं लब्धकीर्त्तिर्जने यो - बोधं बोधं विषमविबुधं जातपूज्यप्रभावः । वेदं वेदं सकलसमयं प्राप्तशान्तस्वभावः स्वर्गस्थोऽसौ विलसति सुखं मद्गुरुर्वृद्धिचन्द्रः ॥ १ ॥ स्नायं स्नायं सुपवितवपुः सार्ववाचामृतेन हाय हायं कुमतकपटं विश्ववन्द्यप्रतापः । घातं घातं सुभटपदवीं प्राप दुष्कर्मवृन्दं स्वर्गस्थोऽसौ विलसति सुखं मद्गुरुर्वृद्धिचन्द्रः॥२॥ पावं पावं मुनिजनपथं कृत्यकार्येषु लीनः स्तावं स्तावं गुणिगुणगणं शुद्धसम्यक्त्वधारी । नावं नावं जिनवरवरं नीत पुण्यप्रकर्षः स्वर्गस्थोऽसौ विलसति सुखं मद्गुरुर्वृद्धिचन्द्रः ॥ ३ ॥ दायं दायं स्वभयमतुलं प्राणिषु प्रीतिपुञ्ज धायं धायं सुमतिमहिलां क्लृप्तकल्याणपोतः । भायं भायं प्रवचनवचो वीरदेवाभिमानः स्वर्गस्थोऽसौ विलसति सुखं मद्गुरुर्वृद्धिचन्द्रः॥४॥
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy