SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ श्रीजिनस्तोत्ररत्नकोशः १०१ न वैक्लव्यं कार्ये क्वचिदपि नचौत्सुक्यमपि यत् । कदाऽप्यस्वास्थ्यं नेत्यनुपमतयैवाभवपरान् स्वरूपं ते देवानधरयति मुग्धाशयमुषः ॥ ५ ॥ महानन्दप्राप्तौ न भवति रतिः संसृतिसुखे, गतेऽत्यन्ताभावं वपुषि खलु जन्मास्ति न पुनः । समग्रैश्वर्याप्तौ प्रभवति न मित्रेतरमति बुधमन्यैरन्ये कथमनुसृतास्तच्छिवधिया ॥६॥ विमुक्तो रागाद्यैः प्रथयति फलं नो तदुचितं विनाऽमी नादृष्टं न च तदुदये निवृतिसुखम् । स्वयं नाप्राप्तस्तत्प्रभवति परेभ्यो वितरितुं त्वदन्यं सेवन्ते कथमिव परे तेन कुधियः ॥ ७ ॥ अमेयास्ते बाणा भुवनजयिनः शम्बररिपोः कषायास्ते योधा हतनरसुराधीश्वरमदाः। अयं मोहस्तेषां प्रमुरपि भटत्वे स्तुतिपदं विभो तावद्यावन्न तव चरितं संस्पृशति हृत् ॥ ८॥ - १ अमोघा इति पाठान्तरम् ।
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy