SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ खोपज्ञ-टीकासहिता। जूरो जरा, सँगताविति धातोः सारणं गमनं भवान्तर इति भावे घञि सारः, ताभ्यां चाविनाभूतत्वेन जन्माप्याक्षिप्यते ततश्च जूरसारौ खलति खलसञ्चये चेति धातोः सञ्चयार्थत्वात्सञ्चिनोतीति जूरसारखल् संसारः, क्किप् तस्मादवति रक्षति जूरसारखलब्, विचप्रत्ययः किपि तु ऊरिति स्यात् तस्यामन्त्रणे ॥ तथा हे ऊजाङ्करदालिप्रभो ! इच्छार्थस्यावतेरवनं ऊः विप् इच्छा तस्याः सकाशाज्जायते स्मोति ऊजः सङ्कल्पयोनिः स्मरस्तस्य येऽङ्करा अभिलाषविशेषास्तेषां दलण् विदारणे इत्यस्मात् “इकिश्तिवस्वरूपार्थे।५।३।१३८॥ इति सूत्रेण धात्वर्थे इप्रत्यये दालिर्विदारणं तत्र प्रभुः समर्थस्तस्यामन्त्रणा। त्वां पुनः कथं भूतं मुद्रसाकरं । मुद् हर्षः स एव रसस्तस्याकर इवाकरः खानितुल्यः तं यथाऽऽकराद्रसादिवस्तु सञ्जायते तथाऽनन्दरसः सर्वोऽपि त्वत्त इत्यर्थः । तथाऽहं कथं भूतः श्रीपानसत्कः श्रियो लक्ष्म्याः पानं रक्षणं तस्मै सदुत्तमपुरुषान् भवादृशान् फण कण रण
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy