SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्रीसाधुराजीयजिनस्तुतिः लपुद्गला अपि तान् अमति गच्छति “सर्वे गत्यर्था ज्ञानार्था” इति न्यायाज्जानाति “मन्वनकनिप्विच्क्वचित् ॥५॥ ११४७॥ इति विचि खाजलाम् तस्य सम्बोधनं । यहा खा भूपा अजडाश्च विद्वांसस्तेषु अमति गच्छति आराध्यतयेति खाजलाम् । अथवा खं शून्यवादस्तस्याजः क्षेपस्तल्लातीति डे, खाजलं अमति जानातीति अम् विच्। ज्ञानमित्यर्थः । ततः खाजलं अम् ज्ञानं यस्य स तथा तस्य सम्बोधनम्। तथा हे लालूषाण्डख!ला आदान इत्येकाक्षरनिघण्टुवचनाल्ला आदानं, आदानं च क्रियारूपम्, किया चतदनुकूलाभिप्रायाविनाभूता, ततश्च ला इति कोऽर्थः लोभः लूश्व च्छेदनं हिंसेत्यर्थः, तावेव उषा रजनी तस्यां अण्डमिव अण्डं वृत्तः परिपूर्णश्चेत्यर्थः, खश्व भास्करे इति वचनात् खः सूर्यः ततश्च अण्डं चासौ खश्च अण्डखः ततः सप्तमीतत्पुरुषः। सूर्यस्याण्डोपमया उपरागाद्युपप्लुतत्वाभावो गम्यते तत आमन्त्रणं हे लालूषाण्डख । तथा हे जूरसारखडब् ! जूरैच जरायामिति धातोर्घत्रि
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy