SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्रीमुनिसुन्दरसूरिविरचितः । ॥ अर्हम् ॥ जय श्रीमन्नाभिप्रभव भुवनत्राणशरण, प्रदेलप्राकारक्षितिधरशिरोमौलिभवन । प्रभो भक्त्यायत्तीकृतशिवपदानन्दमहसस्तव स्तोत्रे यत्नं किमपि विदधे भक्तिविवशः ॥ १ ॥ गुणानामानन्त्याक्रमनियमतश्चापि वचसां न शक्ताः स्तोतुं त्वामपि हरिहरब्रह्मगुरवः । अवैमीति स्तुत्यां तव तदपि यत्नोऽयमुचितो विचारं भक्तानां तिरयति विभौ भक्तिरिह यत् ॥२॥ मम ज्ञानं नास्ते करणरहितं त्वं च किमपि स्वरूपं धत्सेऽर्हन् वृषभ करणातीतममलम् । कथाऽपीति स्तुत्यां क्व तव तदपि स्तोत्रपदवीं लभे यस्या भक्तेरहमपि नवीमीशितरिमाम् ॥ ३ ॥ भवापायैस्तप्तं स्पृहयति जगन्निर्वृतिपदं १४० समग्रापायानां व्यपहृतिपटुश्चासि जगतः । फलावाप्तिर्दूरे तदपि किल यामेव हि विना
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy