SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ श्रीजिनस्तोत्ररत्वकोशः । कथं तदज्ञस्य भवद्गुणा गिरां स्तवात्मिकानां विषयीभवन्तु मे । तथाऽपि वाञ्छन् मणिमेव तत्प्रभास्वपि प्रवृत्तः फलभाग् यथा भवेत् ||२३|| अयं तथाऽर्थेषु गुणानुयायिषु प्रवृत्तिमान् केष्वपि ते स्तुतिं सृजन् । यथावदाप्ताऽपि गुणान् परं स्तुते स्तदा न कर्त्तेत्ययतेऽधुनाऽत्र तत् ॥ २४ ॥ ॥ युग्मम् ॥ एवं सिद्धपुरप्रसिद्धनगरालङ्कार वीर प्रभो भक्त्योद्यन्मुनिसुन्दरस्तवगणं स्तुत्वा खशक्त्या जिनम् । याचे त्वां जगदिष्टसाधनपटो त्यक्तं भयैः सप्तभिः श्रेयः शर्ममयं भवारिविजयश्रीसङ्गमान्मां कुरु ॥२५॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागरसूरि श्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दर सूरिभिर्विरचिते जयश्यते श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे सिद्धपुरस्थश्रीराजविहारमण्डन श्रीवर्द्धमानस्तोत्ररत्नं नवमम् । -10% १३९
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy