SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ १४७ 10 चतुर्थः प्रस्तावः । अथ सर्वोत्तमदिने शुभे वारे शुभे च भे। देवालयस्य प्रस्थानं देसलः स व्यचिन्तयत् ॥२३३॥ उपस्थिते दिने तस्मिन् प्रस्थानं स सिसाधिषुः । साधुः पौषधशालायां सर्व संघममीलयत् ॥२३॥ 5 संघः स्वयमुत्सुकोऽभूत् तदाहूतोऽमिलद् द्रुतम् । उन्मन्मथा यतो बालाऽन्यच्च केकिरवोऽजनि ॥२३॥ अथ ताताज्ञया सूरीनुपाध्यायांस्तपोधनान् । शुभासनेषु समरः आनुपूर्व्या न्यवेशयत् ॥२३६॥ महत्तरा प्रवर्तिन्यः साध्व्योऽन्या अपि सन्ति याः समेतास्ता अपि यथायुक्त्योपावेशयत्स्मरः ॥२३७॥ स्मरस्य बहुमानेन भक्त्या संतुष्टमानसाः । उपासकाः श्राविकाश्च स्वस्थाने उपाविशन् ॥२३८।। साधुर्धराधृतजानुः सिद्धसरिगुरोः पुरः। देसलो वासनिक्षपकारणार्थमुपाविशत् ॥२३९।। तस्यालीके स तिलकं शुभहेतुर्गुरुर्व्यधात् । अधोक्षजाग्रजस्यैव सुरसरिर्जयार्थिनः ॥२४॥ शिरस्यारोपयद्वासचूर्णमस्य गुरोः (रुः) स्वयम् .. जगल्लक्ष्मीवशीकारे तदेवाजनि कार्मणम् ॥२४॥ ततः समरशीर्षेऽपि वासान्निक्षिप्य सद्गुरुः। 20 मुख्यः संघपतीनां त्वं भूयादित्याशिषं ददौ ॥२४२॥ अथो गुरूक्तवेलायां गृहदेवालयस्थिताम् । प्रतिमामादिनाथस्य समादाय मुदाऽन्वितः ॥२४३॥ पञ्चशद्वनिनादेसौ (कैस) पूरयत्यभितो दिशः। (संघस्य देशलोऽस्थापयदेवालये मङ्गलपूर्वकम् ॥ २४४ ॥ प्रयाणः) 25 तदाऽभूत्पोषमासस्य सितपक्षस्य सप्तमी ।। यत्र देवालये देवस्थापना जङ्गमाऽजनि ॥२४६॥ युग्मम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy