SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ 10 . नाभिनन्दनोद्धारप्रबंधः तेऽपि शास्त्रविदः सर्वे मिथोऽनूध मुहुर्मुहुः । लग्नं प्रकाशयामासुनिर्णीय गतदूषणम् ॥२२०॥ सर्वेषां सम्मते जाते देशलो लग्नपत्रिकाम् । ज्योतिर्विदाऽथ मुख्येन लेखयामास सत्वरम् ॥२२॥ 5 घुसृणत्र(छ)टकस्विन्ना विरेजे लग्नपत्रिका। साधोधर्मानुरागाब्धिवीचिशीकरसङ्गिनी ॥ २२२ ॥ ददे ज्योतिर्विदा साधुशये सा लग्नपत्रिका । कल्याणनिधिलाभार्थमिव शासनभूर्जिका ॥२२३।। स्मरसाधुरथाचार्यपादौ चन्दनपुण्ड्रकैः । शिरः कर्परपूरेण पूजयित्वाऽभ्यवन्दितः ॥२२४॥ ज्योतिर्विदां ललाटेषु कालेयतिलकान्यथ । कृत्वा ताम्बूल-वासोभिर्द्रविणेनाप्यमानयत् ॥२२५॥ श्रीखण्डतिलकैः श्राद्धान विभूष्य कुसुमादिभिः । स सकर्पूर-ताम्बूलैरसमानैरतोषयत् ॥२२६।। 15 गीतानि गायना गायन्ति स्म वैतालिका अपि । साधोर्यश-स्तुतिं पेठुरेवं प्रववृते महः ॥२२७।। एवं लमोत्सवं कृत्वा प्रोणयित्वाऽथ मार्गणान् । वि(व्य)सृजदू देसलः संघं बहुमानपुरस्सरम् ॥२२८॥ अथ प्रतिष्ठासमये प्रत्यासत्तिमुपेयुषि ।। 20 देशलः सर्वदेशेषु संघाह्वाननहेतवे ॥२२९॥ कुत्रापि गोत्रिणः क्वापि पौत्रान् कुत्रापि मन्त्रिणः । क्वाप्यन्यान् प्रेषयामास स्वविज्ञप्तिकरान नरान् ॥२३०॥ स्वयं देवालयं नव्यं प्रत्यक्षरथसंनिभम् । यात्रायोग्यं सुचित्राचं(ढ्यं)कारयामास देसलः॥२३१॥युग्मम् 25 गुरुश्रीसिद्धसरीणां षौषधोकसि देसलः । नीत्वा देवालयं तेभ्यो व्यासक्षेपं व्यधापयत् ॥२३२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy