SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ नाभिनन्दनोद्धार प्रबंधः । सगरश्चक्रवर्ती स श्रीशत्रुञ्जयपर्वते । उद्धारेषु प्रसिद्धेषु पञ्चसु द्वितीयोऽभवत् ॥७८॥ यत्र रामादिसाधूनां तिस्रः कोट्यः शिवं गताः । नारदानां च नवतिर्लक्षा एकाधिकास्तथा ॥ ७९ ॥ 5 कोट्यो दशास्मिन् द्रविड - वालिखिल्यादिभूभुजाम् । सिद्धिं गता निष्ठिताष्टकर्मकक्षा क्षणादपि ॥ ८०॥ प्रद्युम्न - शाम्बप्रमुखाः कुमारा यत्र कोटिभिः । सार्द्धाभिरष्टभिः सार्धं सिद्धि प्रापुः सनातनीम् ॥८१॥ पञ्चापि पाण्डवाश्चैत्यं बिम्बं चापि मणिमयम् । 10 संवीक्ष्य दुःषमाकालं प्रधार्य च भाविनाम् ॥८२॥ लोकानां लोभिनां रक्षां बिम्बं कुत्राप्यगोचरे । ११० देशे विन्यस्य लेप्येन मूलबिम्बमकारयत् ||८३ [ युग्मम् ] प्रासादमिष्टका - काष्ठमयमेते व्यधापयन् | पांडवानां तृतीयोद्वारः । विख्यातास्तदमी लोके तृतीयो द्वारकारकाः ॥८४॥ 15 कुन्त्या जनन्या सहितास्तेऽत्र पञ्चापि पाण्डवाः । मुक्तिमा पुर्मुनीशानां सह विंशतिकोटिभिः ॥८५॥ थावच्चासूनुना सेलग - शुकप्रमुख साधवः । भरतप्रभृतयोऽस्मिन्नसंख्याताः शिवं ययुः ॥ ८६ ॥ यत्राजित - शान्तिनाथौ जिनौ द्वितीय - षोडशौ । 20 स्वस्वकाले चतुर्मासीं वर्षासु स्थितिमापतुः ॥८७॥ ततः श्रीनन्दिषेणेन यद्यात्रार्थमुपेयुषा । श्रीनेमिनाथशिष्येणाजितशान्तिस्तवः कृतः ॥८८॥ बिम्बस्य यत्र चैत्यस्याप्युद्वारा गणनातिगाः । प्रत्येकं जशिरे तेनाम्भोधिविन्दुमाः ( गाः) स्मृताः ॥ ८९ ॥ 25 यदन्यतीर्थे तपसा विहितेन फलं भवेत् । तद दृष्टमात्रेऽपि भावतो लभ्यते फलम् ॥९०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy