SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । श्रीनाभिनन्दनजिनप्रतिमां रत्ननिर्मिताम् । न्यवेशयद् गर्भगृहमध्ये तं मूलनायकम् ॥६५॥ तथा मूर्ति रत्नमयीं पुण्डरीकगणेशितुः । मणि- स्वर्ण - रूप्यमयीर्जिनमूर्तीः परा अपि ॥ ६६ ॥ 5 ततः प्रसिद्धमभवत्तीर्थमेतदिह क्षितौ । शत्रुञ्जय - पुण्डरीकाद्येकविंशतिनामकम् ॥६७॥ तदस्मिन् विमलगिरौ भरतः प्रथमोऽभवत् । उद्धारकारी श्रीनाभिसूनुसद्मनिवेशनात् ॥६८॥ पञ्चाशद्विस्तृतो मूले योजनानि दशोपरि । 10 अष्टावुच्चो योजनानि श्रीशत्रुञ्जयपर्वतः ॥ ६९ ॥ एतत्प्रमाणश्चतुर्थारकेऽसौ पर्वतस्ततः । हीयमानोऽरके भावी पश्चमे सप्तहस्तकः ॥ ७० ॥ तीर्थेऽस्मिन् ऋषभसेनप्रमुखाः परमेष्ठिनः । असंख्याः समवसृत्य सिद्धिं प्रापुः पुराऽपि हि ॥७१॥ 15 यत्र त्रयोविंशतिश्च ऋषभप्रमुखा जिनाः । श्रीनेमिवर्जाः समवसृताः केवलशालिनः ॥७२॥ श्रीपद्मनाभप्रमुखा भावितीर्थंकरा अपि । यत्तीर्थं पावयिष्यन्ति स्पृष्टा स्वपदपंकजैः ॥७३॥ श्रीबाहुबलिना यत्र समवसरणान्वितम् । 20 मन्दिरं श्रीमरुदेव्याश्चारुरत्नैरकार्यत ॥७४॥ १०९ यस्मिन्नमिर्विनमिश्च मुख्यौ विद्याधराधिपौ । उभाभ्यां मुनिकोटिभ्यां सद्दितौ सिद्धिमीयतुः ॥ ७५ ॥ श्री नाभिनन्दनजिन सन्ताने येऽभवन्नराः । असंख्यास्ते ययुर्यत्र मोक्षमाजिततीर्थपम् (?) १७६॥ 25 अङ्गजोऽजितनाथस्थ सगरो भरताधिपः । सगरस्य द्वीतीयोद्धारः । यत्र चैत्यसमुद्वारं कृत्वा मुक्तिमवाप सः ॥७७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy