SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः । गोसलोऽपि पितुर्मृत्यूत्सवमाधाय साधयन् । सर्वकार्याणि पौराणां निन्ये कालमनाकुलः ॥ १०३ ॥ धन्या गुणमतासूत लोकानन्दकरान् वरान् । क्रमेण श्रीनपि सुतान् कण्ठशक्तिरिव स्वरान् ॥ १०४॥ 5 आसाधरस्तेषु मुख्यो द्वितीयो देसलाहयः । लावण्यसिंहो लघुरप्यलघुर्येऽभवद् गुणैः ॥ १०५॥ संयुतस्तैस्त्रिभिः पुत्रैः फणैरिव स तक्षकः । अधृष्योऽभवदन्येषामधिपो भोगिनामपि ॥१०६॥ तेऽथ त्रयोऽपि तातेन कन्यकाः परिणायिताः । 10 रत्नश्रीभलिका लक्ष्मीरित्यासां क्रमशोऽभिधाः ॥ १०७ ॥ निजादेशकृतां तेषां त्रयाणां तनुजन्मनाम् । साहाय्येन सुखेनैव कालं सोऽप्यति (त्य) वाहयत् ॥ १०८॥ क्रमेण कर्मणो योगात् गोसलो निर्धनोऽभवत् । किं कस्यापि स्थिरा लक्ष्मीः स्वगृहेऽब्जेऽपि या चला ॥ १०९ ॥ 15 ततः स्वल्पर्द्धिकीभूतो गोसलोऽपि समाधिना । मृत्युं प्रापत् पापबुद्धिवर्जितः स्वायुषः क्षये ॥११०॥ आसाधरो लघुरपि वेश्मभारमपारधीः । ३७ दधौ किमिह धौरेयो वयो गणयति क्वचित् ॥ १११ ॥ अथ जातु देवगुप्तसूरीणां जन्मपत्रिकाम् । 20 आशाधरोऽदर्शयत् स्वां स्यामहमपि धनी प्रभो ! ॥ ११२ ॥ विचिन्त्य तां सूरयोऽपि प्रोचिरे शृणु भद्र ! भो ! | भविष्यस्यचिरेणैव त्वमपारधनेश्वरः ॥११३॥ परं यद्यर्जितं धर्मे न व्ययिष्यसि तद्धनम् । स्वयं यास्यति मत्वैतत् कुर्याः पुण्यमनश्वरम् ॥११४॥ 25 स प्रणम्य गुरुनूचे चेत् प्रभो ! भविता धनम् । व्ययिष्यामि तदाऽन्यत्र विना धर्म न कुत्रचित् ॥ ११५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy