SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ नाभिनन्दनोद्धारप्रबंधः। श्रीदेवगुप्तसूरिम्यः प्रतिष्ठाप्य यथाविधि ॥९॥ नूतनां देवकुलिका कारयित्वा न्यवेशयत् । तत्पुरश्चातिविस्तीर्ण यो मण्डपमकारयत् ॥९॥ [त्रिभिर्विशेकम्] 5 एवं वर्तमानस्य धर्मकार्येष्वहर्निशम् । क्रमेणास्य समुत्पन्नस्तनयो गोसलाह्वयः ॥९२॥ स पित्रा सदुपाध्यायात् सकला ग्राहितः कलाः। तथा यथाऽसावक्षेपात् दक्षजाताधिपोऽभवत् ॥१३॥ रूप-यौवनसम्पन्नां कुल-शीलगुणान्विताम् । 10 कन्यां गुणमताऽभिख्यां तावत् तं पर्यणाययत् ॥९॥ जाया-पत्योस्तयोः प्रीतिभावभावितचेतसोः। कालः कियान् व्यतीताय सुखेन निरपाययोः ॥१५॥ अथाजडोऽपि विशाय स्वायुः प्रान्तमुपागतम् । श्रीदेवगुप्तानाकार्य विज्ञप्तिं तत्पुरोऽकरोत् ॥१६॥ 15 प्रभो! यदस्मिन् समये युक्तं कर्तुमुपासकैः । निस्तारणार्थमधुना पूज्यैस्तदुपदिश्यताम् ॥१७॥ सूरयः कारयामासुर्मिथ्यादुष्कृतपूर्वकम् । आराधनां तस्य शुद्धां सिद्धान्तोक्तां यथाविधि ॥९८॥ ततश्चतुर्विधं संघं साधुः क्षामयति स्म सः। 20 सर्वानप्यपरान् सत्त्वान् त्रिविधं त्रिविधेन च ॥१९॥ सप्तक्षेश्यामपि धनं व्यापतुं निजसूनवे । शिक्षामदात् स्वबन्धूनां विभज्य च पुनः स्वयम् ॥१०॥ चतुःशरणमाश्रित्य शुद्धध्यानपरः सुधीः आदायानशनं पञ्च परमेष्ठिनमस्कृती: ॥१०१॥ 25 उच्चरन्त्रात्मना शृण्वन्नपि भव्यमुखोदिताः । शुद्धध्यानोऽमलगेहं गे दे)ह मुक्त्वा दिवं ययौ ॥१०२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy