SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ अवचूरिवृत्तिसहितं चतुःशरणम् यद्वा आराममिव भव्यजीवानां क्रीडास्थानमिवात्मा येषां हर्षहेतुत्वात्ते तथा, अथवाऽऽचारं * पञ्चप्रकारममन्ति गच्छन्त्याश्रयन्तीत्याचारामाः मन्यन्ते बुध्यन्ते जगतः कालत्रयावस्थामिति मुनयः साधवस्ते शरणं भवन्तु / / 36 / / गुण खण्डितानि त्रोटितानि स्नेहरूपाणि दामानि रज्जवो यैस्ते, आर्द्रकुमारेणेवात्मनो ध्यातॄणां च खण्डितस्नेहदामानश्छिन्नस्नेहनिगडा इत्यर्थः / न विद्यन्ते कामो विषयाभिलाषो धामानि च गृहाणि येषां ते तथा / अथवा न विद्यन्ते कामघामानि स्मरमन्दिराणि विषयासक्तिहेतूनि येषां ते तथा / निष्कामो निर्विषयो मोक्षसुखे कामोऽभिलाषो येषां ते तथा मोक्षाभिलाषिण इत्यर्थः / तथा इङ्गिताकारसम्पन्नत्वात् सत्पुरुषाणामाचार्योपाध्यायादीनां वन्दारूणां च दमदन्तेनेव युधिष्ठिरादीनां मनांस्यानन्दयन्त्यभिरामयन्ति सत्पुरुषमनोऽभिरामाः। तथा त्यक्तान्यकृत्यत्वादात्मानं तासु तासु प्रवचनोक्तक्रियासु आ सामस्त्येन रामयन्ति क्रीडयन्त्यात्मानमिति आत्मारामाः, यदिवा विशिष्टसंयमस्थाननियोजनेन आत्मानं क्रीडास्थानं पुरनिवासिलोकस्योद्यानयात्रास्थानमिव येषां ते तथा / आचारं वा पञ्चप्रकारममन्ति गच्छन्ति आश्रयन्तीत्याचारामा मुनयः शरणं भवन्तु / / 36 / / मिल्हियविसय-कसाया उज्झियघर-घरणिसंगसुहसाया / - अकलियहरिसविसाया साहू सरणं विहुयसोया।३७।। सोम० 'मिल्हि अत्ति मिल्हिता अपास्ता विषयाः शब्दाद्याः कषायाश्च क्रोधाद्याश्च यैस्ते तथा, विषयकषायरहिता इत्यर्थः / तथा गृहमगारं गृहिणी कलत्रं तयोः सङ्गः सम्बन्धस्तस्माद्यः सुखास्वादः सौख्यानुभव उज्झितः परिहतो यैस्ते तथा निष्परिग्रहा निस्सङ्गाश्चेत्यर्थः / तथा न कलितौ नाश्रितौ हर्षविषादौ प्रमोदवैमनस्ये यैस्ते तथा, समभावव्यवस्थिता इत्यर्थः / तथा गतः प्रमादो येभ्यस्ते तथाऽप्रमत्ता इत्यर्थः / 'विहु असोआ' इति पाठे तु विधूतानि श्रोतांसि आश्रवद्वारलक्षणानि यैः / यद्वा विधुतः क्षिप्तः शोकः चित्तखेदो यैस्ते तथा, विधूताऽसंयमस्थाना गतशोका वेत्यर्थः। ते साधवः शरणं भवन्तु / / 37 / / गुण मिल्लित्ता अपास्ता विषयाः शब्दाद्याः कषायाश्च क्रोधाद्याः यैस्ते तथा विषयकषायरहिता . इत्यर्थः। गृहगृहिण्योः सङ्गः सम्बन्धस्तस्माद्यः सुखास्वादः सुखलेश्याविशेष
SR No.004445
Book TitleAgam Chatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2008
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy