SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ खण्ड-२ विरोधः कुतश्चित्कारणात्तत्कालसम्भवोऽप्रीतिविशेषः, प्रतिमार्थे उदायनचण्डप्रद्योतयोरिव, अथवा वैरहेतवो विरोधाः, उज्झितास्त्यक्ता वैराणि विरोधाश्च यैस्ते तथा / यत एवोज्झितवेरविरोधा अत एव नित्यं सततं अद्रोहाः परद्रोहवर्जिताः, वैरवत एव परद्रोहाभिप्रायसद्भावात् / यत एवाद्रोहा अत एव प्रशान्ता प्रसन्ना मुखशोभा वदनच्छाया येषां ते तथा, परद्रोहिणां हि मुखं विकरालं स्यादिति / यत एवंरूपा अत एवाभिमतः प्रशस्यः, पाठान्तरेऽभिगतस्सहचारी वा गुणसन्दोहो गुणनिकरो येषां ते तथा / एवंविधानां च ज्ञानातिशयः स्यादिति, हतो मोहोऽज्ञानं यैस्ते तथा ज्ञानिन इत्यर्थः। ते साधवः शरणं भवन्तु / / 35 / / गुण० वैरं प्रभूतकालजम्, तत्कालजो विरोधोऽप्रीतिविशेषः, ततश्च वैराणि च विरोधाश्च, उज्झितास्त्यक्ता वैराणि विरोधाश्च यैस्ते, तथा - नित्यं सर्वदैव / यत एव उज्झितवैरविरोधा अत एवाद्रोहाः परद्रोहवर्जिनः, वैरत एव परद्रोहाभिप्रायः स्यात् / यत एवाद्रोहा अत एव प्रशान्ता प्रसन्ना मुखशोभा वदनच्छाया येषां ते तथा, परद्रोहिणो हि विकरालमुखशोभा भवन्तीति / यतश्चैवंस्वरूपा अत एवाभिगतोऽनुगतः सहचारी गुणसन्दोहो गुणनिकरो येषां ते तथा / एवंविधानां च ज्ञानातिशयो भवतीति / हतो मोहोऽज्ञानं यैस्ते तथा ज्ञानिन इत्यर्थः / ते शरणं साधवो भवन्तु / / 35 / / खंडियसिणेहदामा अकामधामा निकामसुहकामा / सुपुरिसमणाभिरामा आयारामा मुणी सरणं / / 36 / / सोम० खण्डितानि त्रोटितानि स्नेहरूपाणि दामानि रज्जचः, आर्द्रकुमारेणेवात्मनो हस्तिनो वा यैस्ते खण्डितस्नेहदामानः छिन्नस्नेहनिगडा इत्यर्थः / न विद्यते कामो विषयाभिलाषो धामानि च गृहाणि येषामथवा न विद्यन्ते कामधामानि विषयगृहाणि येषां ते तथा, विषयासक्तिहेतुरम्यमन्दिररहिता इत्यर्थः। यद्वा न कामस्य धाम स्थानमकामधामाः, प्राकृतत्वात्पुंस्त्वम्, निष्कामं निर्विषयं यत्सुखं मोक्षसम्बन्धि तद्विषयोऽभिलाषो येषां ते तथा, मोक्षसुखाभिलाषिण इत्यर्थः / तथा सत्पुरुषाणामाचार्यादीनामिङ्गिताकारसम्पन्नत्वादिना स्वविनयेन वन्दारूणां वा स्वशान्तत्वादिना दमदन्तेनेव युधिष्ठिरादीनां मनांस्यानन्दयन्ति अभिरामयन्तीति सत्पुरुषमनोऽभिरामाः। तथा त्यक्तान्यकृत्यत्वादात्मानं तासु तासु प्रवचनोक्तक्रियासु रामयन्ति क्रीडयन्तीत्यात्मारामाः,
SR No.004445
Book TitleAgam Chatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2008
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy