SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ 5 परिच्छेदः / सरखतीकण्ठाभरणम् / 705 चद्रसपेशलमित्यनेन विभावानुभावव्यभिचारिसात्त्विकसंयोगाद्रसनिष्पत्तिरिति रत्यादिरूपेणानेकधाविर्भवतोऽभिवर्धमानस्य परप्रकर्षगामिनः शृङ्गारस्य मध्यावस्थां सूचयति / प्रेयः प्रियतराख्यानमित्यनेन समस्तभावमूर्धाभिषिक्ताया रतेः परप्रकर्षाधिगमाद् भावनाधिगमे भावरूपतामुल्लङ्ग्य प्रेमरूपेण परिणताया उपादानादू भावान्तराणामपि परप्रकर्षाधिगमे रसरूपेण परिणतिरिति ज्ञापयन्नहंकारस्योत्तरां कोटिमुपलक्षयति / सर्वेषामपि हि रत्यादिप्रकर्षाणां रतिप्रियो रणप्रियः परिहासप्रियोऽमर्षप्रिय इति प्रेमण्येव पर्यवसानं भवति / युक्तोत्कर्ष च तत् त्रयमित्यनेनायुक्तो. स्कर्षाणां त्रयाणामप्यूर्जखिप्रभृतीनां गुणत्वमेव नालंकारत्वमित्यवस्थापयति / तथा हि-और्जित्यं भाविकत्वं प्रेय इति गुणेषूपदिश्यते, कुतः पुनरिदमेकदोर्जखि-रसवत्-प्रेयसामलंकारत्वमन्यदो गुणत्वम् / उच्यते भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने / संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः // यथा गोमान् देशः, वाचालो बटुः, वाग्मी विपश्चित् , क्षीरिणो वृक्षाः, बलवान् मल्लः दण्डी, गोमती शालेति / तत्रो खिरसवतोरलंकारत्वविवक्षायामतिशायने भूम्नि वा मत्वर्थीयः / गुणत्वविवक्षायां तु 1. 'विवर्धमानस्य' ग. 2. 'मध्यमावस्थाम्' क.ख. 3. 'प्रेयः प्रि]यतराख्यानम्' क.,ख. पुस्तके 'प्रेयः' नास्ति. 4. 'परप्रकर्षाधिगमात्' इत्यस्य स्थाने 'प्रकर्षाधिगमात्' ख. 5. 'भावनाभिगमे क.ख. 6. परिणतायामुपादानात' क., 'परिणता [या] उपादानात' ग. 7. 'ज्ञापयन्त्रलङ्कारस्योत्सरां' ख. 8. 'प्रेमण्येव' क., 'प्रेम्ण एव"खं. 9. भाविकं प्रेय' क.स. 10. 'गुणेषु भण्यते' क.ख. 11. अन्यदा गुणत्वम्' क. 12. 'फलिनो वृक्षाः' क. 13. 'मन्दो' क. 14. 'शोणेति' क. 15. 'अतिशायने वा' क.ख. 16. 'मतुबर्थीयः' क.स. . 45 स. क.
SR No.004397
Book TitleSarasvatikanthabharanam
Original Sutra AuthorN/A
AuthorDhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
PublisherPandurang Jawaji
Publication Year1934
Total Pages894
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy