SearchBrowseAboutContactDonate
Page Preview
Page 797
Loading...
Download File
Download File
Page Text
________________ 668 काव्यमाला / तत्र 'काव्यशोभाकरान्' इत्यनेन श्लेषोपमादिवद्गुणरसभावतदाभासप्रशमादीनप्युपगृह्णाति / मार्गविभागकृद्गुणानामलंक्रियोपदेशेन श्लेषादीनां गुणत्वमिवालंकारत्वमपि ज्ञापयति श्लेषः प्रसादः समता माधुर्यं सुकुमारता / ' अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः // इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः / तेषां विपर्ययः प्रायो लक्ष्यते गौडवर्त्मनि // इति श्लेषादीनां दशानामेव मार्गप्रविभागकारितां ब्रुवन्काव्यशोभाकरत्वेन गुणान्तराणामप्यलंकारत्वमुपकल्पयति // तदाह, 'कस्ताकास्येन वक्ष्यति' / युक्तमिदमुक्तम् / अयुक्तं त्विदमुक्तं रसानामलंकारतेति // तेषां गुणानामिवालंकारव्यपदेशाभावात् / नायुक्तम् / युक्तोत्कर्षाणामूजखिरसवत्प्रेयसामलंकारेषूपदेशात् / तद् यथा प्रेयः प्रियतराख्यानं रसवद् रसपेशलम् / ऊर्जखि रूढाहंकारं युक्तोत्कर्ष च तत्रयम् // 172 // तत्रोखि रूढाहंकारमित्यनेन आत्मविशेषनिष्ठस्योत्कृष्टादृष्टजन्मनोऽनेकजन्मानुभवसंस्काराहितेंद्रढिम्नः संग्रामे गुणसंपदुत्पादातिशयहे. तोरलंकारविशेषस्योपसंग्रहादहंकाराभिमानशृङ्गारापरनाम्नो रसस्य मानमयविकाररूपेणाभिमानिनां मनसि जाग्रतः परां कोटिमुपवर्णयति / रस 1. 'प्रसादादीन्' ख. 2. 'अनुगृह्णाति' क. 3. 'गौडवमनि लक्ष्यते' क. 4. 'मार्गप्रतिभाकारिता' क. 5. 'इति' इत्यधिकं क. 6. 'उक्तोत्कर्षाणाम्' ख. 7. प्रेयानामुपदेशेन' क. 8. 'उत्कृष्टजन्मनो' ख. 9. 'संस्कारा हि तढिम्नः' ख. 10. 'संग्रामेण सम्पदुत्पादातिशयहेतोः' क. 11. 'अलंकारविशेषस्य' इत्यस्य स्थाने 'विशेषस्य' ख.
SR No.004397
Book TitleSarasvatikanthabharanam
Original Sutra AuthorN/A
AuthorDhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
PublisherPandurang Jawaji
Publication Year1934
Total Pages894
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy