SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ 5 परिच्छेदः / सरखतीकण्ठाभरणम् / 571 तद्रूपेणैव. सात्त्विकोत्पत्तौ जन्म यथा'अभूद्वरः कण्टकितप्रकोष्ठः खिन्नाङ्गुलिः संववृते कुमारी / / तैस्मिन्द्वये तत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन // 2 // अत्र खेदरोमोद्भेदयोः सात्त्विकयोरुत्पादाद्रसस्य रतिरूपेणाविर्भावोऽवगम्यते / जन्मैव संचार्युत्पत्तौ यथा'तयोरपाङ्गप्रविचारितानि किंचिव्यवस्थापितसंहृतानि / हीयन्त्रणामानशिरे मनोज्ञामन्योन्यलोलानि विलोचनानि // 3 // अत्र हीः संचारिभावो जायमानो रसस्य जन्म ज्ञापयति / तदेवानुभावोत्पत्तौ यथा'ततः सुनन्दावचनावसाने लजां मृदूकृत्य नरेन्द्रकन्या / दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव // 4 // अत्र दृष्टिलक्षणः शरीरारम्भोऽनुभावो भवन् रसाविर्भावं लक्षयति / अनुभावादेरनेकस्यैकस्य वा पुनरुत्पत्तिरनुबन्धः / सोऽनेकस्य यथा'विवृण्वती शैलसुतापि भावमङ्गैः कचिबालकदम्बकल्पैः / साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन // 5 // 1. 'आसीद्वरः कण्टकितप्रकोष्ठः' इति मल्लिनाथोङ्कितः पाठः. 2. 'वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेन मनोभवस्य' मुद्रितपाठः. 3. 'स्वेदरोमोद्गमयोः' ख. 4. 'जन्मैव सत्त्वाद्युत्पत्तौ यथा' ख. 5. अत्र च 'तयोरुपान्तप्रतिसारितानि', 'तयोरपाङ्गप्रतिचालितानि', 'तयोरपाङ्गप्रतिवारितानि' इत्येवंविधा अनेके पाठाः. 6. अत्रापि ‘क्रियासमापत्तिनिवर्तितानि', 'क्रियासमापत्तिविवर्तितानि', 'क्रियासमापत्तिषु कातराणि', 'तयोः समापत्तिषु कातराणि किंचियवस्थापितसंहृतानि' इत्येवंविधा अनेके पाठाः. 7. तदेवानुभवोत्पत्तौ' क., 'तदेवानुभयोत्पत्तौ' ख. 8. 'तनूकृत्य' मुद्रितपाठः. 9. 'शरीरारम्भेऽनुभावो भवन्' क.ख., 'शरीरानुभावो भवन्' ग. 10. 'स्फुरद्वालकदम्बकल्पैः' ख. मुद्रितकुमारे.
SR No.004397
Book TitleSarasvatikanthabharanam
Original Sutra AuthorN/A
AuthorDhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
PublisherPandurang Jawaji
Publication Year1934
Total Pages894
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy