SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ 275.] . 237 पञ्च मोऽध्यायः / न[नु] पुनर्ज्ञानप्रस्थाने' नवमानविधा उक्तास्तद्यथा--"श्रेयानहमस्मीति मानविधा। सदशोऽहमस्मीति तद्दष्टिसंनिश्रितैव मानविधा। सदशाद्धीनोऽहमस्मीति मानविधा। अस्ति मे श्रेयानस्ति मे सदृशोऽस्ति मे हीनः, नास्ति मे श्रेयो नास्ति मे सदशो नास्ति मे हीनः" इति / तत्र श्रेयानहमस्मीति सत्कायदष्टिसनि (न)श्रिता अतिमानविधा। सदृशोऽहमस्मीति तद्दष्टिसनिश्रिते (ते)व मानविधा। हीनोऽहमस्मोति तदृष्टिसन्निश्रितैवोनमानविधा। अस्ति मे श्रेयानित्यूनमान विधा। अस्ति मे सदृश इति मानविधा / अस्ति मे मान इति मानातिमानविधा। नास्ति मे श्रेयानिति मानविधा। नास्ति मे सदश इत्यतिमानविधा। नास्ति मे हीन३ इत्यूनमानविधा। इति एवमेता नवमानविधास्त्रिभ्यो मानेभ्यो व्यवस्थाप्यन्ते माना मानोनमानेभ्यः / / त एते सप्तमानाः सर्वेऽपि दर्शण(न)भावनाहेयाः स्थविरक्षेमकसूत्रोक्ते:६ ...'अस्ति मे एषु पञ्चसूपादानस्कन्धेष्वस्मीति मानोऽप्रहीन: (णः)" इति // 1 Jianaprasthana. 20, 6 See Jps. pp. 55-7. 2 Cf. यत्तहि शास्त्रे नव मानविधा उक्ताः / Akb. V. 10 a. 3 युक्तस्तावद् बह्वन्तरविशिष्टादल्पान्तरहीनोऽस्मीत्यूनमान उन्नतिस्थानत्वात् / नास्ति मे हीन इत्यत्र किमुन्नतिस्थानम् / अस्ति सदृशो योऽभिप्रेते वरे सत्त्वराशौ निहीनमप्यात्मानं बहु मन्यते / अपि चास्त्येव ज्ञानप्रस्थानविहितो विधिः / प्राकरणं तु निर्देशं परिगृह्य श्रेयानहमस्मीत्येकेषु गानोऽपि स्यादिति मानोति मानातिमानोऽपि हीनसमविशिष्टापेक्षया / ARD. v. 10 a.. * 4 Cf. कतमे नवविधा माना? सेय्यस्स सेय्योहमस्मीति मानो। सेय्यस्स सदिसोहमस्मीति मानो। सेय्यस्स हीनोहमस्मीति मानो। सदिसस्स सेय्योहमस्मीति मानो। सदिसस्स सदिसोहमस्मोति मानो। सदिसस्स हीनोहमस्मीति मानो। हीनस्स सेय्योहमस्मीति मानो। हीनस्स सदिसोहमस्मीति मानो। हीनस्स हीनोहमस्मीति मानो। इमे नवविधा माना। Vbh. p. 389. . 5 एतदुक्तं भवति सर्वे दर्शनभावनाप्रहातव्या इति / Akb. v. 10 ab.-सर्व इति ग्रहणमस्मिमानोऽपि भावनाप्रहातव्यः / न केवलं शेषाः / शेषा अपि दर्शनप्रहातव्याः / न केवलमस्मिमान इति प्रदर्शनार्थम् / Saks. p. 457. & This sutra is not referred to in Akb. 7 Cf. तेन खो पन समयेन आयस्मा खेमको बदरिकारामे विहरति आबाधिको दुक्खितो / आयस्मा दासको येन "खेमको तेनुपसंकम्म " इमेसु आयस्मा खेमको पञ्चसु उपादानक्खन्धेसु किञ्चि अत्तानं वा समनुपस्सती ति ? ... "इमेसु स्वाहमावसो पञ्चसु उपादानक्खन्धेसु न किञ्चि अत्तानं वा समनुपस्सामी" ति /
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy